________________ 292 - कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते 'नवा स्वरे' (2 / 3 / 102) इत्यनेन लकारः 'ऋतां क्ङि तीर्' (4 / 4 / 17) इर् तिमीनां गिलगिलस्तिमिङ्गिलगिलः गिलं गिलतीति गिलगिलः / गिलगिलशब्दे गिलशब्दो नोत्तरपदं भवति इति गिलगिलोपादानं पृथक् कृतम् / तथा सूत्रेऽगिलादित्यत्र गिलशब्दस्य स्वरांतस्य पर्युदासेन स्वरांतशब्दादेव मोंतो भवति / तेन व्यंजनांतान मोन्तः धूर्गिलः इति / अगिलादिति तु निषेधो गिलांतशब्दस्य निवृत्त्यर्थः, इयमवचूरिः सूत्रांते ज्ञेया // 115 / / भद्रोष्णात् करणे // 3 / 2 / 116 // भद्रादुष्णाच करणे उत्तरपदे मोन्तः स्यात् / भद्रकरणम्, उष्णंकरणं // 116 // अ० भद्रस्य करणम् / उष्णस्य करणमिति वाक्यानि // 116 / / / न वाऽखितकदन्ते रात्रेः // 3 / 2 / 117 // खिद्वर्जितकृदन्ते उत्तरपदे रात्रेर्मोन्तः स्यात् वा / रात्रिश्चरः, रात्रिचरः, रात्रिश्चरी, रात्रिचरी। कृदंत इति किम् ? रात्रिसुखम्, 'इदमेवांतग्रहणं ज्ञापकम् / इहोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययस्यैव ग्रहणम् न तदंतस्य, तेन कालात्तनतरतम' इत्यादौ प्रत्ययमात्रस्यैव ग्रहणं सिद्धम्भ / 'न नाम्येकस्वरादि' (3 / 2 / 9) त्यादौ त्वसंभवात्तदंतग्रहणम्, केचित्तीर्थकरः, तीर्थंकरः, अत्रापि विकल्पमिच्छंति, तदर्थं न वा खित् कृदंते इति रात्रेरिति च योगो विभजनीयः // 117 // ___ अ० रात्रौ चरतीति 'चरेष्टः' (5 / 1 / 138) टप्रत्ययः / रात्रिंचरीत्यत्र 'अणजेकण्नञ०' ङीः (2 / 4 / 20) अव्युत्पन्नोऽयं सुखशब्दः / 'कृति' (3 / 1 / 77) इत्युक्तेऽपि कृदन्ते उत्तरपदे सति विधिर्भविष्यति इत्यर्थः / तीर्थंकर इति तीर्थं करोतीति तीर्थंकरः / ‘हेतुतच्छीलानुकूलेशब्दश्लोककलहगाथावैरचाटुसूत्रमंत्रपदात्' (5 / 1 / 103) इति टप्रत्ययः / / 117|| .. धेनो व्यायां // 3 / 2 / 118 // भन्योत्तरपदे धेनोर्मोतः स्याद्वा / धेनुंभव्या धेनुभव्या // 118 // अ० धेनुंभव्या इति / धेनुश्चासौ भव्या च धेनुभव्या, धेनुशब्दस्य विशेष्यत्वेऽपि अग्रे रचनायोग्ये सति अत एव सूत्रबलात् धेनोः पूर्वनिपातो भवति / / 118 / / ___ अषष्ठीतृतीयादन्याहोऽर्थे // 3 // 2 // 119 // अषष्ठीतृतीयान्तादन्यशब्दादर्थे परे दोन्तः स्याद्वा / अन्यदर्थः, अन्यार्थः, अन्यदर्थ, अन्याय / अषष्ठीतृतीयादिति किं ? अन्यार्थः // 119 // अ० अन्योऽर्थ इति वाक्यम् / अन्योऽर्थोऽस्ये तिवाक्यं सोऽन्यदर्थः / अन्यस्मै इदं अन्यदर्थम्, एवमन्यस्मिन्नर्थः, अन्यदर्थः दआदेश इत्थं कार्यः / सूत्रे अकार उच्चारणार्थः // 119 / / आशीराशास्थितास्थोत्सुकोतिरागे // 3 / 2 / 120 // वेति निवृत्तं पृथग्योगात्, अषष्ठीतृतीयांतादन्यशब्दादाशिस् आशा आस्थित आस्था उत्सुक अति रागायुत्तरपदेषु दोंतः स्यात् / अन्यदाशीः, अन्यदाशा, अन्यदास्थितः, अन्यदास्था, अन्यदुत्सुकः, अन्यदूतिः, 1. अखित् इत्युक्तिः रात्रिमन्यमहः इत्यादौ नित्यमेव मोन्तत्वात् / 2. अन्तग्रहणं किम् ? रात्रिरिवाचरति किप् लुक् तृच् रात्रपिता इत्यस्यानन्तरं विज्ञेयमिति / तत्र उत्तरपदग्रहणात् /