________________ 289 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः शीर्षः स्वरे तद्धिते // 3 // 2 // 103 // कु. स्वरादौ तद्धिते परे शिरसः शीर्ष इत्यादेशः स्यात् / हास्तिशीर्षिः। स्थौलशीर्षिः। मार्गशीर्षी / औष। गर्षिकः / कथं इल्वला 'मृगशीर्षस्येति ? शीर्षशब्दः प्रकृत्यन्तरमस्ति / अनेनैव सिद्धे उक्तविषये शिरसः योगनिवृत्त्ययं वचनं ॥छ।१०३॥ अ० हस्तिनः शिर इव शिरो यस्य हस्तिशिराः, हस्तिशिरसोऽपत्यं हास्तिशीर्षिः / एवं स्थूलशिरसोऽपत्यं स्वौलशीर्षिः / 'बाह्वादिभ्यो गोत्रे' (6 / 1 / 32) / इति सूत्रेण इञ् / ततः शीर्षः आदेशः, तथा मृगशिरसा चन्द्रयुक्तेन बुक्का मार्गशीर्षी 'चन्द्रयुक्तात्काले लुप्त्वप्रयुक्ते' (6 / 2 / 6) इति अण् शिरसिं कृतं शैष / 'तत्र कृतलब्धक्रीतसंभूते' (6 / 3 / 94) इति सूत्रेण इण् / शिरसा तरति शीर्षिकः 'नौ द्विस्वरादिकः' (6 / 4 / 10) इति इकप्रत्ययः / 'मस्तकवाची शीर्षशब्दः स्वरादितद्धिताविषयः // 10 // उदकस्योदः पेपंधिवासवाहने // 3 / 2 / 104 // पेषमायुत्तरपदेषु उदकस्य उद इत्यादेशः स्यात् / उदपेषं पिनष्टि / उदधिर्घटः / उदवासः / उदवाइनः / अनामार्थ सूत्रं, "नाम्नि उत्तरेणैव सिद्धम् ॥छ।।१०४॥ - अ० उदकशब्दस्य उदकं धीयतेऽस्मिन् इति उदधिः / 'व्याप्यादाधारे' (5 / 3 / 88) इति किः / इडेत्पुसि चातो लुक् (4 / 3 / 94) आकारलोपः उदकेन पिनष्टि इति वाक्ये ‘स्वस्नेहनार्थात् पुष्पिषः (5 / 4 / 65) इति सूत्रेण णम् / उदकेन पिनष्टीत्यर्थः, उदकस्य वासः उदकं वाहनं यस्य // 104 / / . वैकव्यञ्जने पूर्ये // 3 // 2 // 10 // 'उदकस्य पूर्यमाणार्थे एकव्यञ्जनेऽसंयुक्तव्यञ्जनादावुत्तरपदे उदो वा स्यात् / उदघटः उदकघटः / उदपात्रं उदकपात्रम् / व्यंजनादाविति किम् ? उदकामत्रम् / एकेति किम् ? उदकस्थानम् / पूर्य इति किम् ? उदकदेशः // 10 // ____ अ० उदकादिना द्रव्येण पूरणीयं घटादिकं पूर्यमुच्यते / तत्र यदुत्तरपदं वर्त्तते तस्मिन्निति वैयधिकरण्येन योजना कार्या उदकस्य घटः // 10 // मन्यौदनसक्तुबिन्दुवज्रभारहारवीवधगाहे वा // 3 / 2 / 106 // मन्याद्युत्तरपदेषु उदकस्य उदो वा स्यात् / उदमन्थः / उदकमन्थः / उदौदनः उदकोदनः / उदसक्तुः उदकसक्तुः / उदबिन्दुः उदकबिन्दुः / उदवज्रः उदकवज्रः उदभारः उदकभारः / उदहारः उदकहारः / उदवीवधः / उदकवीवधः / उदगाहः उदकगाहः ॥छ।।१०६॥ अ० अपूर्यार्थो यत्नोऽयं, उदकस्य मन्थः, वीवधशब्दः पथि भारे वर्त्तते // 106 / / . नाम्न्युत्तरपदस्य च // 3 / 2 / 107 // . उदकस्य पूर्वपदस्योत्तरपदस्य च नाम्नि उदः स्यात् / उदधिः समुद्रः / उदपानं निपानं / उत्तरपदस्य लवणोदः / कालोदः / क्षीरोदः / लोहितोदा / क्षीरोदा नाम नदी ॥छ।।१०७॥ __ अ०. पूर्वपदे उत्तरपदे (वा) वर्तमानस्य उदकशब्दस्य उदादेश इति अर्थः / पानीयं निपानम्, उत्तरपदे उदकस्य 1. भृगशिरा नक्षत्र 652 २हेब पांय तारामो. 2. अणन्तत्वात् डीप्रत्ययः स्त्रियाम् / 3. प्रकृत्यन्तरभूतं शीर्षशब्दं दर्शयति / 4. . नाम्न्युत्तरपदस्य च इति सूत्रेणेति ज्ञेयम् /