________________ 284 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते अ० 'णहीच बंधने', 'पाठे धात्वा०' (2 / 3 / 97) नह उपनाति उपानत्, एवं परिनह्यति परीणत् / अथवा उपनद्यते उपानत्, (परिनह्यते) परीणत्, ‘उपानत्' इति विप्लोपानंतरपदांतत्वे सति 'नहाहोर्धतौ' (2 / 1 / 85) इति सूत्रेण हकारस्य ध् / 'विरामे वा' (1 / 3 / 51) धस्य त् (आ) देशः, एवं उपावृत् / 'वृष् उक्ष सेचने' / प्रवर्षति मेघा अस्यां इति प्रावृट्, एवं परीवृट् / 'व्यधंच ताडने' / श्वानं विध्यति, एवं मर्माणि विध्यतीति, श्वावित्, मर्मावित् / नितरां रोचते नीरुक् / एवं अतीरुक् / अभीरुक् / 'षहि मर्षणे' / 'षः सो०' (2 / 3 / 98) सह, तुरं सहते 'तुरासट् / ऋतिः पीडा-ऋतिं सहते ऋतीषट्, 'भीरुष्ठानादयः' (2 / 3 / 33) इति षत्वं / परितनोतीति परीतत्, ‘गमां कौ' / (4 / 2 / 58) इति सूत्रेण तनोर्नकारस्य लोपः / सर्वत्र 'क्रुत्संपदादिभ्यः किप् (5 / 3 / 114) 'हस्वस्य तः' पित्कृती'ति, (4 / 4 / 114), 'नोतः' / (3 / 4 / 16) श्वावित्, अत्र 'ज्याव्यधःक्डिति' / (4 / 1 / 81) इति सूत्रेण वृत् संप्रसारणं तुरासट् / इत्यत्र ‘हो धुट् पदांते' / (2 / 1 / 82) इत्यनेन हकारस्य ढकारः / 'विरामे वा' (1 / 3 / 51) ढस्य टकारः / पट्वी रुक् यस्य श्वेता रुक् यस्य, अन्यत्र कोऽर्थः ? सूत्रे उदाहरणे वा-आदिविधिः प्रथमं मूलप्रतिरूपं भवति / पश्चाद् रूपान्तरे सत्यपि सूत्रोक्तं कार्यं भवतीत्यर्थः, अयंसा कृतं अयस्कृतं / अयस्करोतीति अयस्कारः / 'अतःकृकमिकंस०' (2 / 3 / 5) इत्यनेन सकारः / / 85 / / . घञ्युपसर्गस्य बहुलं // 3 // 2 // 86 // घान्ते उत्तरपदे परे उपसर्गस्य बहुलं दीर्घः स्यात् / नीवारः। प्रावारः / कचिन दीर्घः, निषादः, विषादः, प्रतापः, प्रभावः / कचिद्दी| वा प्रतिबोधः, प्रतीबोधः, परीणामः, परिणाम इत्यादि / कचिद् विषयभेदेन, प्रासादो गृहं, प्रसादोऽन्यः, प्राकारो वप्रः, प्रकारोऽन्य इत्यादि / बहुलवचनादनुपसर्गस्यापि अघञ्यपि दीर्घः दक्षिणापथः, उत्तरापथः। कचिद्वा अन्धतमः, अन्धातमः अन्धातमसं, अन्धतमसं / कचिदनुत्तरपदेऽपि वा दीर्घः, पूरुषः, पुरुषः, नारकः, नरकः, सादनं, सदनं, अतिशायनं, अतिशयनं ॥छ।।८६।। ____ अ० नियतेत्रियते इति नीवारः / 'नेषुः' (5 / 3 / 74) इति सूत्रेण घञ्, 'नामिनोऽकलिहलेः' (4 / 3 / 51) वृद्धिः। प्रवृणोति देहं इति प्रावारः-उत्तरपटः उत्तरासङ्गार्थपटः इत्यर्थः, आदिशब्दात् प्रतीवेशः, प्रतिवेशः, प्रतीहारः, प्रतिहारः, प्रतीकारः, प्रतिकारः, अतीसारः, अतिसारः, अतीचारः, अतिचार इति / अपामार्गः-ओषधिः, अपमार्गोऽन्यः, नीहारो हिमं, निहारोऽन्यः, परीरोधो मृगावरोधः, परिरोधोऽन्यः, परीहारो देशानुग्रहः परिहारोऽन्यः, वीतंसः पक्षिबंधनं, वितंसोऽन्य इति, आदिशब्देन विशेषप्रयोगाः। अन्धशब्दो अन्धं करोतीति ‘णिच् बहुलं' / (3 / 4 / 42) इति णिच् / अन्धयतीति अच्, अन्धं च तत्तमश्च अन्धतमसं 'समवान्धात्तमसः' / (7 / 3 / 80) इत्यनेनऽत् // 86 // नामिनः काशे // 3 / 2 / 87 // नाम्यन्तोपसर्गस्य अजन्ते काशशब्दे उत्तरपदे परे दीर्घः स्यात् / नीकाशः / वीकाशः / प्रतीकाशः। बहुलाधिकारानिकाश इत्यपि ॥छ।।८७॥ . अ० निकाशते निकाश्यते इति वा अच्प्रत्ययः, एवं वीकाशः, प्रतीकाशः, इत्यत्रापि 'अच्' (5 / 1 / 49) अच् प्रत्ययांते // 87|| 1. तुरेर्जुहोत्यादिपाठात् तुतोर्ति 'नाम्युपान्त्य इति सूत्रेण कः, तुरं सहते तुरासट, तुरासाडिति तु छान्दसः / 2. उपसर्गस्येति किम् ? चन्दनसारः, अत्र सारशब्दस्य घन्तत्वेऽपि चन्दनशब्दस्य उपसर्गाभावात् दीर्घान्तादेशाभावः, पन्नीति किम् ? अवसायः, अत्र अब-पदस्य उपसर्गत्वेऽपि सायशब्दस्य घनन्तत्वाभावात् अत्र दीर्घान्तादेशाभावः इति ज्ञेयम् / 3. अजन इत्यस्यार्थः /