________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः 277 - अ० मथुरायां भवा माथुरी / 'भवे' (6 / 3 / 123) इति सूत्रेण अण् / अथवा मथुराया आगता माथुरी / 'तत आगते' (6 / 3 / 149) इति सूत्रेण अण् / एवं वैदर्भीः, कुम्भकारी भार्याऽस्य कुम्भकारभार्यः / परतः स्त्रीति पुंवत्, अर्द्धप्रस्थे बृहती पटी उपरितनमाच्छादनमुच्यते / बृहत्येव बृहतिका पटी / 'तनु पुत्राणु बृहती शून्यात् सूत्रकृत्रिमनिपुणाच्छादनरक्ते' (7 / 3 / 23) इति सूत्रेण कप्रत्ययः / 'ड्यादीदूतः के' (2 / 4 / 104) इत्यनेन ह्रस्वः, इकारः / बृहतिका इति सिद्धं / कषायेण रक्ता काषायी / 'रागाट्टो रक्ते' (6 / 2 / 1) इति सूत्रेण अण् / काषायी बृहतिकाऽस्य काषायबृहतिकः / / एवं माञ्जिष्ठ (बृहतिकः) अर्धप्रस्थे भवाऽर्द्धप्रस्थी'भवे' (6 / 3 / 123) इत्यण् / 'अर्द्धात् परिमाणस्यानतोवात्वादेः' (7 / 4 / 20) इति सूत्रेण उभयपदस्यापि वृद्धिप्रतिषेधः, अर्द्धप्रस्थी भार्याऽस्य अर्द्धप्रस्थभार्यः, वैयाकरणी भार्याऽस्यः, लोहस्य विकारो लौही, 'विकारेण' (6 / 2 / 30) इति सूत्रेण अण्, ततः डीः, लौही ईषाऽस्य लौहेषः // 55 // .. स्वाङ्गान् ङीर्जातिश्चामानिनि // 3 // 2 // 56 // स्वाङ्गाद् यो ङीस्तदन्तः शब्दः, जातिवाची च यः शब्दः, परतः स्त्री स पुंवन्न भवति, अमानिनिमानिशब्दश्चेत्परो न स्यात् / दीर्घकेशीभार्यः / चन्द्रमुखीभार्यः / जाति / कठीभार्यः / क्षत्रियाभार्यः / 'आकृतिग्रहणाजातिरत्रिलिङ्गा च यान्विता / आजन्मनाशमर्थानां सामान्यमपरे विदुः // 56 // अ० अत्र प्रथमजातिलक्षणानुसारेण कुमारीभार्य इति भवति / द्वितीयजातिलक्षणानुसरणे तु कुमारभार्य इति भवति। स्वाङ्गादिति किं ? पटुभार्यः / अमानिनीति किं ? दीर्घकेशमानिनी, कठमानिनी // 56 / / . पुंवत्कर्मधारये // 3 // 2 // 57 // परतः स्त्री अनूड्, कर्मधारयसमाझे स्त्रयेकार्थे उत्तरपदे परे पुंवत् स्यात् प्रतिषेधसूत्राधिकारबोधनार्थ सूत्रमिदं कृतं / प्रतिषेधनिवृत्त्यर्थं आरंभः / नाप् प्रियादावित्युक्तं तत्रापि भवति / कल्याणी चासौ प्रिया च कल्याणप्रिया / 'तद्धिताककोपान्त्ये' त्युक्तं तत्रापि पुंवत् / मद्रकभार्यः इत्यादि / तद्धितस्वरवृद्धित्युक्तं, तत्रापि पुंवद्भावः / माथुरवृन्दारिका / स्वाङ्गादीत्युक्तं, तत्रापि पुंवद्भावः / चन्द्रमुखवृन्दारिका / परतः स्त्रीत्येव ? खट्वावृन्दारिका / अङित्येव ? ब्रह्मबन्धूवृन्दारिका ॥छ॥५७॥ अ० ननु यदि प्रतिषेधनिवृत्त्यर्थं आरम्भस्तर्हि ब्रह्मबन्धूवृन्दारिका इत्यादिषु अनूङ् इत्यस्य प्रतिषेधस्या कथं न निवृत्त्यर्थः ? उच्यते, यदि अनूडोपि प्रतिषेधस्या निवृत्तिरिष्टा स्यात् तदा ‘अनूङ्' इति प्रतिषेधाधिकारसूत्रे पृथगेव कुर्यात्, यन्न कृतः, तन्नास्य प्रतिषेधस्य निवृत्त्यर्थ इत्यभिप्रायः / मद्रिका चासौ भार्या च मद्रकभार्यः, माधुरी चासौ वृन्दारिका च (माथुरवृन्दारिका) चन्द्रमुखी चासौ वृन्दारिका च (चन्द्रमुखवृन्दारिका) // 57 / / रिति // 3 // 2 // 58 // परतः स्त्री अनूङ् इति प्रत्यये पुंवत् स्यात् / पटुजातीया / पटुदेशीया ॥छ।।५८॥ अ० रिति, रकारानुबन्धप्रत्यये परे सति, पट्वी प्रकारोऽस्याः सा पटुजातीया / 'प्रकारे जातीयर्' / (7 / 2 / 75) इति सूत्रेण जातीयर् / ईषदपरिसमाप्ता पट्वी पटुदेशीया, ('अतमबादेरी) षदपरिसमाप्तौ०' देशीयर् / / 58 / / त्वते गुणः // 3 / 2 / 59 // परतः स्त्री, अनूङ् गुणवचनः शब्दः, त्वते इति [एतयोः] प्रत्यययोः परयोः पुमान् स्यात् / पट्ट्या भावः,