________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः 271 दुहितृपतिः / स्वसुःपतिरित्यादि / विद्यायोनिसम्बन्धे इति पूर्वपदविशेषणं किम् ? भर्तृस्वसा / पूर्वेण नित्यं निषेधे प्राप्ते विकल्पोऽयम् // 38 // “अ० मातृष्वसा पितृष्वसा अत्र 'मातृपितुः स्वसुः' (2 / 3 / 18) इति सूत्रेण समासे स्वसृशब्दस्य सकारस्य षकारो भवति / तथा मातुःस्वसा, मातुःष्वसा, पितुःस्वसा, पितुःष्वसा, अत्र ‘अलुपि वा' (2 / 3 / 19) इति सूत्रेण षष्ठी, अलुप् समासे स्वसृसकारस्य विकल्पेन षकारो भवति / इति प्रयोगद्वयं द्वयम् / मातुःष्वसा, मातृष्वसा इत्यपि / आदिशब्दात् स्वसुः पतिःस्वसृपतिः, ननान्दुःपतिः ननान्दृपतिः / उत्तरपदविशेषणं किम् ? होतृपतिः // 38 // आ द्वन्द्वे // 3 // 2 // 39 // ___ विद्यायोनिसम्बन्धनिमित्तानामृदन्तानां यो द्वन्द्वस्तस्मिन् सति उत्तरपदे परे पूर्वस्य आकारान्तादेशः स्यात् / होतापोतारौ, मातापितरौ, मातादुहितरौ, 'ननान्दायातरौ / ऋतामिति किम् ? गुरुशिष्यो / विद्यायोनिसम्बन्धे इत्येव ? कर्तृकारयितारौ // 39 // ___ अ० ऋकारान्तानां द्वन्द्वसमासः / (होता च पोता च) माता च पिता च, माता च दुहिता च, ननान्दा च याता च / विद्यायोनिसम्बन्धस्तु इह सूत्रे प्रत्यासत्तेः समस्यामानानां ऋदन्तानामेव परस्परं द्रष्टव्यः, न येन केनचित् अकारान्तादिना सह, तेन चैत्रस्य स्वसृदुहितरौ अत्र आकारो न भवति / / 39 / / - पुत्रे // 3 // 2 // 40 // पुत्रशब्दे उत्तरपदे परे द्वन्द्वे विद्यायोनिसम्बन्धे निमित्तानामृदन्तानामाकारादेशः पूर्वपदस्यान्ते स्यात् / मातापुत्रौ / पितापुत्रौ // 40 // वेदसहश्रुताऽवायुदेवतानाम् // 3 // 2 // 41 // वेदे सहश्रुतानां वायुवर्जितदेवतानां द्वन्द्वे पूर्वपदस्योत्तरपदे परे आ अन्तादेशः स्यात् / इन्द्रासोमौ, इन्द्रावरुणौ, अग्नेन्द्रौ, अग्नामारुती, सोमारुद्रौ, सूर्याचन्द्रमसौ / वेदेति किम् ? ब्रह्मप्रजापती / सहेति किम् ? विष्णुशक्रौ / श्रुतेति किम् ? चन्द्रसूर्यो / वायुवर्जनं किम् ? अग्निवायू / देवतानामित्येव ? यूपचषालौ उद्खलमुसले // 41 // ____अ० न विद्यते वायुर्यत्र देवता सोऽवायुः / वेदे सह श्रुताः वेदसहश्रुताः / वेदसहश्रुताश्च ता अवा यवश्च ते देवताश्च वेदसहश्रुतावायुदेवताः, तासां द्वन्द्वसमासे सति / इन्द्रश्च सोमश्च, इन्द्रश्च वरुणश्च, अग्निश्च इन्द्रश्च / सूर्यश्च चन्द्रमा च सूर्याचन्द्रमसौ इति प्रकारेणैव वेदे लोके श्रूयते प्रसिद्धश्च / न तु चन्द्रसूर्यौ इति रूपेण प्रसिद्धिः // 41 / / ईः षोमवरुणेऽग्नेः // 3 // 2 // 42 // वेदसहश्रुतावायुदेवतानां द्वन्द्वे षोमे वरुणे चोत्तरपदेऽग्निशब्दस्य ईकारान्तादेशः स्यात् / षोमेति निर्देशात् 1. अत्र उत्तरपदत्वं अन्त्स्यैव विज्ञेयं तेन होता च पोता च नेष्टोद्गातार इति द्वयोर्द्वयोर्द्वन्द्वो होतृपोतानेष्टोद्गातार इति भवति, यदा च होतृ च पोतृ च नेष्टोद्गातृ च इति विग्रहस्तदा होतृपोतृनेष्टोद्गातारः इति च भवति पूर्वोत्तरपदत्वाभावात्, नात्र पोतृशब्दस्य अन्तस्याकारादेशः इति विशेषो विज्ञेयः / 2. अत्रायं भावः समस्यमानानां ऋदन्तानां द्वन्द्वसमासकृतेऽपि विद्यायोनिसंबंधसत्त्वमपेक्षणीयमेव / 3. चैत्रस्य स्वसृदु-हितरौ इत्यत्र स्वसृदुहित्रोः न परस्परं संबंधः, नहि स्वसा चैत्रस्य स्वसा भवन्ती दुहितरमपेक्षते दुहिता स्वसारमिति, मातापितरौ, होतापोतारौ च इति कथं ? इति न च वाच्यम्, मात्रादीनां परस्परसंबंधात्, ते हि स्वकर्मणि प्रजने यागे च सहिता एवं प्रवर्त्तन्ते तत् कर्मनिमित्तश्चायं व्यपदेश इति, केचित्तु स्वसादहितरावित्यपीच्छन्ति /