________________ 242 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते दक्षिणकोशला इत्यादि / पूर्वेषुकामशमीत्यादिषु संज्ञायां नित्यसमासः / न हि वाक्ये संज्ञा गम्यते / पूर्वोत्तरविभागप्रदर्शनार्थं तु विग्रहवाक्यम् / पूर्वा इषु कामशमी / अपरा इषु कामशमी / दक्षिणस्यां शालायां भवो दाक्षिणशालः / उत्तरस्यां शालायां भव औत्तरशालः / 'दिक्पूर्वादनाम्नः' (6 / 3 / 23) इति सूत्रेण णप्रत्ययः / अधिकया षष्ठ्या क्रीत इति वाक्ये 'मूल्यैः क्रीते' (6 / 4 / 150) इति सूत्रेण इकण् / अथवा अधिकां षष्टिं भूतो भावी वा इति वाक्ये 'तं भाविभूते' (6 / 4 / 106) इति सूत्रेण इकण् / 'मानसंवत्सरस्याशाणकुलिजस्यानाम्नि' (7 / 4 / 19) इति सूत्रेण उत्तरपदवृद्धिः / एवं अधिकसाप्ततिकः / उत्तरपदेऽपि नित्यः समासः / त्रयाणामेका भाव एवोत्तरपदसम्भवात् / दक्षिणो गौर्धनमस्य दक्षिणगवधनः / उत्तरो गौर्धनमस्य ‘गोस्तत्पुरुषात्' (7 / 3 / 105) इति अट्समासान्तः // 98 // सङ्ख्या समाहारे च द्विगुश्वानाम्न्ययम् // 3 // 1199 // अनेकस्य कथञ्चिदेकत्वं समाहारः / सङ्ख्यावाचि नाम परेण नाम्ना सह समस्यते / तत्पुरुषः कर्मधारयश्च / संज्ञायां तद्धिते विषयभूते उत्तरपदे परे समाहारे चाभिधेये / अयमेव च तत्पुरुषोऽनाम्नि असंज्ञायां द्विगुसंज्ञश्च स्यात् / संज्ञायाम्-पञ्चाम्राः सप्तर्षयः दशार्हाः / तद्धिते, द्वयोर्मात्रोरपत्यं द्वैमातुरः / पञ्चकपाल ओदनः, पञ्चजनीनः, अध्यर्द्धकंसः, अध्यर्द्धशूर्पः / उत्तरपदे, पञ्चगवधनः पञ्चनावप्रियः / द्वे अहनी जातस्य व्यह्रजातः / समाहारे, पञ्चपूली दशपूली पञ्चराजी / एवं पञ्चकुमारि / समाहारे चेति किम् ? अष्टौ प्रवचनमातरः / अनाम्नीति किम् ? पश्चर्षीणामिदं ['तस्येदम्' (6 / 3 / 160) अण्] पाश्चर्षम् / एवं दाशार्हम् / द्विगुप्रदेशा 'द्विगोः समाहारात्' (2 / 4 / 22) इत्यादयः // 19 // ___ अ० द्विगुश्चेत्यत्र चकारस्तत्पुरुषकर्मधारयसंज्ञासमावेशार्थः / सूत्रे अयंग्रहणमुत्तरसूत्रेषु द्विगुश्च इत्यस्य अननुवृत्त्यर्थम् / पञ्च च ते आम्राश्च पञ्चाम्राः / सप्त च ते ऋषयश्च सप्तर्षयः / दश च तेऽश्चि दशार्हाः / समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते इति बहुसङ्ख्याकाम्रादिवाचकोऽपि पञ्चाम्रादिशब्द एकस्मिन्नपि आम्रादौ प्रयुज्यते तेन फलित एकः पञ्चाम्रः, पुष्पितौ द्वौ पञ्चाम्रौ, उदितात्रयः सप्तर्षयः, दृष्टाश्चत्वारः सप्तर्षयः, अतिसुभग एको दशार्हः इत्यादयो प्रयोगाः सिद्धाः / द्वयोर्मात्रोरपत्यमिति वाक्ये 'संख्यासम्भद्रात् मातुर्मातुर् च' (6 / 1 / 66) इति सूत्रेण अण्प्रत्ययः, मातृशब्दस्य मातुर् इत्यादेशः द्वैमातुरः। पञ्चसु कपालेषु संस्कृतः पश्चकपालः 'संस्कृते' (6 / 4 / 3) इति सूत्रेण इकण् / 'द्विगोरनपत्ये यस्वरादेर्लुबद्विः' (6 / 1 / 24) इति सूत्रेण इकण् लुप्यते / पञ्चभ्यो जनेभ्यो हितं पञ्चजनीनः / पञ्च च ते जनाश्च पञ्चजनाः। ततः पञ्चजनेभ्यो हितः ‘पञ्चसर्वविश्वाज्जनात्कर्मधारये' (7 / 1 / 41) इति सूत्रेण ईनप्रत्ययः / अध्यर्द्धन कंसेन क्रीतः अध्यर्द्धन शूर्पण क्रीतः 'कंसार्धात्' (6 / 4 / 135) इति सूत्रेण इकट्प्रत्ययः / अन्यत्र ‘शूर्पाद्वाञ्' (6 / 4 / 137) इति सूत्रेण अप्रत्ययः ‘अनाम्न्यद्विः प्लुप्' (6 / 4 / 141) इति सूत्रेण इकट् अञ् लुप्यते / पञ्च गावो धनमस्य 'गोस्तत्पुरुषात्' (7 / 3 / 105) अट् समासान्तः / पञ्च नावः प्रिया यस्या 'नावः' (7 / 3 / 104) इति सूत्रेण अट्समासान्तः / तथा पञ्च च ते गावश्च इत्यपि कृते समासान्त अत्प्रत्ययविषये समासो भवत्येव इति पञ्चगव इत्यादयोऽपि प्रयोगाः / द्वे अहनी जातस्येति वाक्ये 'सर्वांशसंख्याव्ययात्' (7 / 3 / 118) इति सूत्रेण अट्समासान्तः / अहन्शब्दस्य अह्न इत्यादेशश्च / पञ्चानां पूलानां समाहारः दशानां पूलानां समाहारः / पञ्चानां राज्ञाँ समाहारः पञ्चराजी / एवं दशराजी / 'राजन्सखेः' (7 / 3 / 106) इति सूत्रेण अट्समासान्तः / एषु सर्वत्र 'द्विगोः समाहारात्' (2 / 4 / 22) इति ङीः / पञ्चानां कुमारीणां समाहारः पञ्चकुमारि 'क्लीबे' (2 / 4 / 97) इति सूत्रेण ह्रस्वः / एवं दशकुमारि / पाञ्चर्षं इत्यत्र द्विगुत्वेऽनपत्यप्रत्ययस्य लुप् स्यात् // 19 //