________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य प्रथमः पादः ___ अघोषेभ्योऽन्यो गादिवर्णो घोषवान् स्यात् / ग घ ङ / ज झ ञ / ड ढ ण / द घ न। ब भ म। य र ल व ह 20 // 14 // . अ० 'अन ष्वसक् प्राणने' / अनिति जीवति परार्थोऽनेनेति अन्यः / 'स्थाछामासासूमन्यनिकनिषसिपलिकलिशलिशकीjिसहिबन्धिभ्यो यः' (357) इति यः / घोषणं घोषः / घोषो ध्वनिर्विद्यते यस्य सः / तदस्यास्त्यस्मिन्निति मतुः' (7 / 2 / 1) इति मतुप्रत्ययः / ‘मावर्णान्तोपान्त०' (2 / 1 / 94) मस्य वः / सिः / 'ऋदुदितः' (1 / 4 / 70) इति न् / 'अभ्वादेरत्वसः सौ' (1 / 4 / 90) इति दीर्घः / 'दीर्घड्यां०' (1 / 4 / 45) इति सिलुक् / ‘पदस्य' (2 / 1 / 89) इति तलोपः / घोषवान् इति / / 14 / / __यरलवा अन्तस्थाः // 11 // 15 // य र ल व इत्येतेऽन्तस्थाः स्युः // 15 // ___ अ० 'ष्ठां गतिनिवृत्तौ' ष्ठा / 'षः सोऽष्टयैष्ठिवष्वष्कः' (2 / 3 / 98) इति स्ठा / निमित्ताभावे नैमित्तिकस्याप्यभावः इति स्था / अन्तपूर्वः / स्वस्य 2 स्थानस्यान्ते तिष्ठन्तीत्यन्तस्थाः / 'स्थापास्नात्रः कः' (5 / 1 / 142) इति कः। 'इडेत्पुसि चातो लुक्' (4 / 3 / 94) इति आलोपः / 'आत्' (2 / 4 / 18) इत्याप्रत्ययः / स्वभावादन्तस्थाशब्दः स्त्रीलिङ्गः बहुवचनान्तश्च // 15 // . अं अः क प श ष साः शिट् // 11 // 16 // अकपा उच्चारणार्थाः। अनुस्वारविसर्गी वज्राकृतिगजकुम्भाकृती च वर्णी शषसाश्च शिटः 7 स्युः // 16 // . तुल्यस्थानास्यप्रयत्नः स्वः // 11 // 17 // स्थानं कण्ठादि / आस्ये प्रयत्नः आस्यप्रयत्नः स्पृष्टतादिः / तुल्यौ वर्णान्तरेण सदृशौ स्थानास्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्वसंज्ञः स्यात् / तत्र त्रयोऽकारा उदात्तानुदात्तस्वरिताः। प्रत्येकं सानुनासिकनिरनुनासिकभेदात् षट् / एवं दीर्घप्लुतावित्यऽष्टादशभेदा अवर्णस्य / ते सर्वे कण्ठस्थाना विवृतकरणाः परस्परं स्वा भवन्ति / एवमिवर्णास्तावन्तः [अष्टादशरूपाः] तालव्या विवृतकरणाः स्वाः / उवर्णा [तावन्त एव] ओष्ठ्या विवृतकरणाः स्वाः। ऋवर्णा तावन्त एव] मूर्द्धन्या विवृतकरणाः स्वाः / लुवर्णा [तावन्त एवाष्टादशभेदाः] दन्त्या विवृतकरणाः स्वाः / सन्ध्यक्षराणां ह्रस्वा न सन्तीति तानि प्रत्येकं द्वादशभेदानि / तत्र एकारास्तालव्या विवृततराः स्वाः / ऐकारास्तालव्या अतिविवृततराः स्वाः / वाः पञ्च पञ्च परस्परं स्वाः / यलवानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्परं स्वौ / रेफोष्मणां [रकारशषसहानां] त्वतुल्यस्थानास्यप्रयत्नत्वात् स्वा न भवन्ति [केनापि वर्णेन सह स्वसंज्ञका न भवन्ति // 17 // __अ० तुल्य / तुलामारोहति तुल्यं / 'हृद्यपद्यतुल्यमूल्य.' (7 / 1 / 11) इत्यादिना तुल्य इति निपातः / (तिष्ठन्ति वर्णा अस्मिन्निति 'करणाधारे' (5 / 3 / 129) इति अनटि स्थानम् / अस्यति परिणमयत्यनेन वर्णानिति ऋवर्णव्यअनाद् इति बहुलवचनात् करणे ध्यणि आस्यम्) / 'यतैङ् प्रयत्ने' यत् / प्रपूर्वम् / प्रयतनं प्रयत्नः / 'यजिस्वपि०' (5 / 3 / 85) इति नः / यत्र प्रदेशे पुद्गलस्कन्धस्य वर्णभावापत्तिः तत्स्थानकं कण्ठादि / यदाहुः-'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा / जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च' // 1 // अस्यति क्षिपति वर्णाननेन मुखेन कृत्वा आत्मा इति आस्यं मुखम् / ओष्ठात्प्रभृति प्राक्काकलकसंज्ञकात्कण्ठमणेघण्टेति प्रसिद्धस्य / आस्ये