________________ - जैनगीता। तदेतञ्चतुष्कं जिनानां नदन् यः , स नित्यं भवेद्धन्यमानी सुजैनः / न धार्यो न नम्यो न जप्यो न पूज्यो, भवेत्तस्य देवोऽपरः कर्मकीटः॥१ दर्शनशुद्धिकृते करोति सततं तीर्थेश्वराणां महान् , ___ संसारोत्तरणैकसाधकतमं तीर्थं तदीयं परम् / भ्रान्तोऽयं भववारिधौ जनिमतीः कुर्वन्ननन्तान् भवान्, ___यत्तान् प्राप्य तदीयतीर्थमसमं स्यात्पारगः सेवनात् // 18 // यथा यथा गुणोन्नतान् सुसेवया भजत्ययं, जिनाँस्तदात्मसंश्रितान् गुणान् विचिन्त्य मानसे / तदेव पूर्वकारणं तथा तथोच्चये यदा यदाऽऽत्मचिन्तया भवेत् क्षयस्तु तद्विरोधिनाम् // 19 // यथाभिधानस्य महान्त आप्या, गुणाः स्मृतेः सिद्धमिदं जगत्याम् / एकस्य [यत् तद्युक्तपदार्थजातेः स्मृतिः स्मृतेः कारकतापदं गता // 20 // अर्थेऽसौ भवति प्रतीतविषये कोशान्न सर्वो विदन् , सिद्धायां तु जने भवेत् स्फुटमतेः सत्यां प्रतीतौ गुणाः / चित्ते तत्र गता यदीह निपुणाः किं नाकृतिस्था गुणाः, स्मर्तव्या हि भवन्ति चेदवयवे निश्शेषशुद्धे किमु // 21 // सर्वैत जिनबिम्बसन्ततिगता देवासुरैर्मानुषैः, स्तुत्यर्चामुखसाधना सुविदितैः किन्नाऽऽदरादादृता / स्पष्टः सर्वजनेषु यत्प्रतिमया सिंहाद्विबोधोऽर्भके, तद्वद् द्रष्टुमिहास्ति नैव जिनपे भावाश्रितं शक्यते // 22 मूर्तिर्जिनानां शमलीनरूपं, मुखेन वक्ति प्रशमं दृशा तु / अङ्कोऽङ्गनासङ्गविरक्तचित्त-माख्याति युग्मं करयोररागम् // 23