________________ जैनगीता। तपः क्षिणोति चेदघं पुरा भवार्जितं नहि, . कथं प्रमुच्यते जनः कृतांहसां क्रमाद् भुजेः / अबुद्धवोधसङ्गतिर्न कर्मनाशमन्तरा, .यथैन आत्मवीर्यजं तां हि नान्यथा यतः // 15 // ज्ञानं सर्वपदार्थसार्थगमनं यावद्भवेत् केवलं, चारित्रं विगतातिचारसुभगं यावद्यथाख्यातिकम् / . आगच्छदुरितौघसंवृतिकरं स्थाने कपाटो यथा, . प्राचीर्णाघसमूहसल्लयकरं शुद्धं तपः पावनम् // 16 // सत्यं तपोऽस्त्यसुखरूपमिदं तु किश्चित् , कर्मापसारणपरे मुदितात्मताऽत्र / कोटया ऋणं विनयते ददताऽल्पमेव, (जन्तुः) लाभस्ततश्च भविता वृजिनौघनाशात् // 17 // सत्यं दुःखं न भवति दुरितोद्रेकशून्यं कदाचित् , कर्माभावो मनसि समितः प्रेप्सितस्तद्धि धर्मात् / यावन्मोक्षो विमलनसहितो जातिमृत्योर्न जातस्तावत्सर्वे दधति मलिनं तत्तपो मुक्तिहेतुः // 18 // यावान् कश्चिजगति जनितः कर्मजातः समग्रो, नैवोत्थानं जननविगमयोः पापसङ्घ विना स्यात् / मन्ताऽऽपत्तेविलयपटुतां सन्दधात्यान्तरेऽस्याः , कर्माणूनां विलयनपटुता सत्तपस्येव साक्षात् // 19 / / मोक्षो भवेद्भवभृतां समये तु यस्मिन् , तस्मिन् भवेत् तपस एव परानुकाष्ठा /