________________ जैनगीता। / नवमोऽध्यायः / ( तपोऽधिकारः ) ज्ञाता जीवा अजीवाः परिहृत उदितस्त्वाश्रवाणां समूहः, साधित्वा संवरांस्तं नवतरमरुणद् बन्धमार्हन्त्यलीनः / यावन्मोक्षं प्रयातुं हृदयमभिसरत्यन्तरा कर्मजालं, प्राग्बद्धं विद्रवेन्मां न खलु मयि तपस्तत्क्षयाई यदि स्यात् // 11 // जीवोऽस्ति नैव, नहि. यः क्षपयेदधानि, कर्माणवो यदुदयं सततं प्रयान्ति / निर्जीयतेऽघमुदितं भविनां ,मता साऽकामा, न सा खलु शुभायतिराप्तमार्गे // 2 // तत्रापि योऽल्पमुपचित्य बहु क्षिणोति, सोऽभ्येति कर्मलघुताप्रभवां सुरूपाम् / काष्ठां ततः क्रमगतां तु यथाप्रवृत्तां, लब्ध्वाऽपि तां शममुपैत्यसुमान् कदाचित् // 3 // लब्धे शमे परत आचरतीह कश्चित् , शुद्धेः पदं तप इहात्मसुवर्णशुद्धथै / अत्रैव सा भवति कामयुता प्रशस्या; सन्निर्जराऽव्ययपदार्पणसाध्यरूपा भृगुप्रपातादिकमाचरन्तो, दृश्यन्त उद्धारहदो भवाब्धेः / प्रेत्यास्ति नैवाश्रयणं त्वमीषां, कुबोधजं बालनिमग्नचेतसाम् // 5 // उदाहृतं बालतपः शमादेः, प्राप्तौ बुधैहे तुतया यन्त्र / तदुत्सवादिरिव साधनाप्तौ, क्षमं भवेऽनन्तश आदृतं यत् // 6 // // 4 //