________________ 213 आगमोद्धारककृतिसन्दोहे चित्रं भव्यगतं मतं श्रुतिधरैभव्यत्वमत्राङ्गिनां, . किञ्चिनैव फलेत् कदाचिदभवं दत्त्वा परं कालगम् / वैचित्र्यं प्रणिधाय सिद्धिपददं किश्विजिनेन्द्रागमा !, . __युष्मत्प्रोक्तमलं चतुःशरणमादत्त्वा फलेन्नान्यथा // 93 / / शुद्धागम ! त्वं विविधं विधाता, यतः श्रयस्त्वां खलु जीव आदौ / अर्हन् गणेशोऽवरकेवली वा, भविष्यतीति नियतिं विधत्से / 94 / / एकस्वरूपोऽपि कथं विचित्रां, (विधत्से ), सम्यक्त्वकाले हि तथाविधां जने / जिनेन्द्रमुख्यैः खलु चित्ररूपैः, फलैः फलन्तीमृजुमागमक्रियाम् // 95 / / आदिष्टा विधयः सदागम ! भवोत्ताराय ये ये त्वया, व्यस्ताँस्तान्निखिलान् श्रयन्ति भविनः प्राप्तुं शिवं सोत्सुकाः। निर्वाणं परमं त्वया फलतयादिष्टं पुरेवाऽऽश्रितान् , वचित्र्यं किमनेहसो धृतमिहावल्गुप्रमादास्पदम् // 96 / / सदागम ! त्वत्कथिताशया इमे, दधाविरे त्वत्कथि ( द्गदि ) ताशयाङ्गिनः / फलं विचित्रं विविधाद्धि कालाद्रक्ष्यं महत्त्वं ननु हा ! कथं ते // 97|| नयविहीनं न च तेऽस्ति रूपं, सदागमेमे च विचित्रताजुषः / न चान्यवद्धयेकनयाश्रितस्त्वं, ग्राह्यश्च धार्यश्च कथं नु वाच्यः // 98 / / समग्रधर्माश्रितवस्तुवाचः प्रमाणतामिति वाच आप्ताः / नन्वागम ! त्वं नियतार्थधर्मः प्रमाणभावो ननु ते विदा कृतः / / 99 //