________________ 166 जैनगीता / भाव्यं यदेव जगति प्रथनं हि तस्य, . नाकारणं भवति कार्यमनादिकालात् / यत्ने कृते मतिमतेतरथाऽपि कार्य, . धर्मो० ज्ञानानि यद्यपि मतानि बुधैस्तु पञ्च, मोक्षैकसाधनमलं श्रुतमेकमेव / तत् प्राप्यते तु मतिमज्जनसत्तिभावात्, धर्मो० // 23 // लब्धेऽपि लोककलनैकगुणे प्रबोधे, निःशेषकर्मविगमो न विनैव (विहाय) यत्नम् / श्रेणेरदृष्टनिचयेऽपगतेऽपि जीवाद्, ' धर्मो० // 24 // न प्रेम भक्तिरुपवास उदारभावः,. शुद्धा न मोक्षविधये विहिताः कुपात्रे / निर्दोषधर्ममधिगत्य समे फलाढ्या, , धर्मो० // 25 // धर्माजिनेशगुरवोऽपि च धर्मवृत्ति, ____ कुर्वन्ति सन्ततमिमे दुरितालिनाशात् / धर्मोज्झिते नहि जिनत्वगुरुत्वभावो, धर्मो० // 26 // दीपाद्भवेन्मणिगणस्य यथार्थबोधो, नैनं विनान्धतमसेऽर्घमतिस्तदीया / धर्मस्य बोध उदयेद्गुरुदेवभावाद्, धर्मो० // 27 // अङ्गी यदा चरममागत आत्मभावा दावर्त्तमात्मनिचितं विदधाति धर्मम् / / भावीद्धभावसहितः प्रवरोदयाङ्गं, धर्मो० // 28 //