________________ जैनगीता। 157 कार्यक्षिणो नैव महाँल्लघुर्वा, सत्साध्ययुक्तस्त्ववधीरणापदम् / चतुर्विधं तन्नमतीह सधं, पुनातु० // 25 / / दृग्ज्ञानकर्माश्रवरोधयुक्तं, मार्ग सदा श्रोतृगणं दिदेश / तदुक्तितो मान्यपदं हि तीर्थं, पुनातु० // 26 / / अर्हत्त्वमुख्यजितसंसृतिकान्तभावा त्रिंशत्परास्त्यधिकसंयुज आप्तयोग्याः / तीर्थप्रवर्तनविधौ सततं स्वरूपा दर्हन्पुनातु सततं भविनो भवाब्धेः // 27 // अर्हत्त्वनाम्न उदयः फलतो जिनत्वे, . पूर्वेष्वनेकनिषु प्रविचिन्तितोऽन्तः / अन्त्ये गुणे हि भवनान्न तनुक्रियाया, अर्हन् पुनातु० // 28 // यत्कर्मजं फलमिहार्चनमर्हतः स्यात् , तद्यावदेष ‘भव इत्यपयोगितायाम् / देवैः कृतं सप्रतिहारमयोगिभाव-महन् पुनातु० // 29 // तीर्थप्रवृत्तौ सकलातिशेषा, अर्हत्त्वमुख्या जिनपात्मसंस्थाः / पूजा (वृक्षा) दिकास्त्वन्त्यक्षणं त्ववाप्य, पुनातु० // 30 // मुक्तेरवाप्तौ द्वितयी ध्रुवं स्या-दुत्सङ्गपर्यंकमयी दशा तु / तेन प्रतिच्छन्ददशाद्वयी तत् , पुनातु० // 31 // जगन्जनि-स्थेम-लयः प्रवञ्च्य, जनान्न तेषु प्रभुतां दधाति / मोक्षाध्वदीप्तेः प्रभुतां दधानः, पुनातु० // 32 //