________________ 550.) . अष्टमोऽध्यायः) इदमिदानीं वक्तव्यम् / इह +ध्यानसमापत्तिषु प्रथमद्वितीययोर्ध्यानयोः सौसनस्यमुक्तं प्रीतिवचनात् / प्रीतिर्हि सौमनस्यम् / ' तृतीये सुखं चतुर्थे उपेक्षा / तत्किमुपपत्तिध्यानेष्वप्येष एव वेदना नियमः ? नेत्युच्यते / कि तहि ? [549] प्राद्ये प्रीतिसुखोपेक्षा द्वितीये तु सुखादृते / सुखोपेक्षे तृतीयेऽन्त्ये उपेक्षव विदिष्यते // प्रथमध्यानोपपत्तौ खलु तिस्रो वेदनाः / सुखं त्रिविज्ञानकायिक, सौमनस्यं मनोभौममुपेक्षा चतुविज्ञानकायिकी / द्वितीयध्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके / नात्र सुखमस्ति पञ्चविज्ञानकायाभावात् / तृतीयध्यानोपपत्तौ द्वे वेदने मनोभूमिके / चतुर्थध्यानोपपत्तावुपेक्षैव वेदना विद्यत इति / / ननु च द्वितीयादिषु ध्याने षु रूपशब्दस्प्रष्टव्यानामुपलब्धयः सन्ति विज्ञप्तिसमुत्थापकं च चित्तम् / तत्कथं तत्र त्रिविज्ञानकायिका वेदना नास्तीत्युच्यते, वितर्कविचारौ चेति ? नेष दोषः / स्वभूमिकप्रतिषेधात् / कुतस्तेन तहि रूपादयो विज्ञायन्ते क यविज्ञप्तिश्चोत्थाप्यते ? तदपदिश्यते[550] दक्छोत्रकायविज्ञानं विज्ञप्तिजनकं तथा। यद्भूमा विचारायामाद्यादव्याकृतं तु तत् // द्वितीयध्यानोपपन्नाः खलु रूपशब्दस्प्रष्टव्यान्युपलिप्सवो जिगमिषवो .. प्रथमध्यानभूमिकानि चक्षुविज्ञानादीनि त्रीणि विज्ञानानि विज्ञप्तिसमुत्थापकं च संमुखीकृत्य निर्माणचित्तवदुपलभन्ते स्पन्दन्ते चेति / तत्पुनः प्रथमध्यानभूमिकं चित्तमव्याकृतमेव संमुखीकुर्वन्ति न कुशलं न्यूनेनाबहुमानत्वान क्लिष्टं वीतरागत्वात् / तद्यथा कश्चिदीश्वरो दरिद्र मित्रगृहं गतः / तेनासो सुहृदा सर्वस्वप्रदानेनोपनिमन्त्रितो मित्रचित्तानुवर्तनया हीनोत्कृष्ट वस्तु हित्वा यत्किञ्चिद् गृहीते तद्वदिति / व्याख्यातस्वरूपाणि ध्यानानि / / . 1v. supra, p. 52, n. 3. 2 Cf. सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते। ___सुखोपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु // Ak. VIII. 12. 3-3 From प्रथमध्यानोपपत्तो to विद्यत इति is identical with Akb. VIII.12. 4 Cf. कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् / द्वितीयावौ तवाद्याप्तमक्लिष्टाव्याकृतं च तत् // Ab. VIII. 13. .. For an allied controversy, see वचीभेदकथा, Ko. II. 5.