________________ 320.] . पञ्चमोऽध्यायः / 279 [319] नामसल्लक्षणाभावाद् द्रव्यसत्यासिद्धितः / अनाग ताभ्यतीतस्य नास्ति प्रज्ञप्तिसत्यता / / सोपादानं हि सर्वं प्रज्ञप्तिसत् / न च वर्तमानमुपादानमुपपद्यते / अनागताभ्यतोतस्य तस्मान्निरुपादानस्य प्रज्ञप्त्यभावादसदेतत् / यदि तमुनागतं चक्षुरादिद्रव्यं विद्यते कस्मान्न पश्यति न दृश्यते न विजानाति ? न व्यक्त कारित्राभावादी (दि)ति / / तदत्र कोशकारः प्रश्नयति- . [320] को विघ्नः यदि चक्षुर्विद्यते किं न पश्यति ? वयं ब्रमः * अङ्गवकल्यम् दृष्टं हि प्रदोपाद्यङ्गवैकल्ये वर्तमानस्यापि चक्षुषो रूपादर्शनम् / स प्रत्याचष्टे---सर्वस्य सदास्तित्वे कुतोऽङ्गवैकल्यम् ? वयमाचक्ष्महे ... न तत्सर्वास्तिता सदा। .. . त्रयध्विकानि खल्वत्राङ्गानि विवक्षितानि / तत्र केषाञ्चिदसांनिध्यं भवति तद्वेकल्यात्कारित्रं न करो'तीति। स प्रत्याचष्टे तत्कथं 1 इदं तु वक्तव्यम् / यद्यतीतमपि व्यतोऽस्त्यनागतमिति / कस्मात्तवतीतमित्युच्यतेऽनागतमिति वा / ननु चोक्तं-'अध्वानः कारित्रेण व्यवस्थिताः' इति / यद्येवं प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषः किं कारित्रम् / फलदानप्रतिग्रहणम् / अतीतानामपि तहि सभागहेत्वादीनां फलदानात् कारित्रप्रसंगोऽर्द्धकारित्रस्य वेति लक्षणसंकरः। इवं च वक्तव्यम् / . तेनैवात्मना सतो धर्मस्य नित्यं कारित्रकरणे को विघ्नः येन कदाचित् कारित्रं करोति कदाचिन्नेति / Akb. v. 27 a. 2 प्रत्ययानामसामग्र्यमिति चेत् / न / नित्यमस्तित्वाभ्युपगमात् / Ibid... 3 यच्च तत्कारित्रमतीतानागतं प्रत्युत्पन्नं चोच्यते / तत्कथं कि कारित्रस्याप्यन्यदस्ति कारित्रम् / अथ तेनैवातीतं नाप्यनागतं न प्रत्युत्पन्नमस्ति