________________ 294.] - पञ्चमोऽध्यायः। 249 कानि पुनस्तानि चत्वारि व्याकरणानि ? काश्च ताश्चतस्रः स्थितयः ? तदवद्योत्यते[294] एकांशाख्यं विभज्याख्यं पृच्छाख्यं स्थाप्यमेव च / मरणप्रसवोत्कर्षजीवद्रव्यान्यतादिवत् // ' तत्रैकांशव्याकरणम्३–कि (किं) यः कश्चिज्जायते सर्वोसौ मृ(म्रियते? ओमिति वाच्यम् / अथ यः कश्चिम्रियते सर्वोसो जायत इति ? विभज्य व्याकर्तव्यम् --क्षीणास्रवो न जायतेऽन्यः सर्वो जायते / कि मनुष्यो विशिष्टोऽथ हीन इति ? परिपृच्छय व्याकर्तव्यम्-कानधिकृत्य पृच्छसि ? देवांस्तिर्यगादीन्वा ? यदि देवानारभ्य हीन इति वाच्यम् / अथ तिरश्च : श्रेष्ठ इति व्याकर्तव्यम् / किमन्यः स्कन्धेभ्यः पुरुषो वाऽनन्य इति ? एष प्रश्नः स्थापनीयः२, सदसतोरन्यानन्यत्वव्याकरणायोगात्प, खपुष्पसौगन्ध्यदौर्गन्ध्यव्याकरणवत् // 1 Cf. एकांशतो व्याकरणं विभज्य परिपृच्छय च। स्थाप्यं च मरणोत्पत्तिविशिष्टात्माऽन्यतादिवत् / / Ak. V. 22. Also cf. चत्तारो पञ्हव्याकरणा। एकंसव्याकरणीयो पञ्हो, विभज्य व्याकरणीयो पञ्हो, पटिपुच्छा व्याकरणीयो पहो, ठपनीयो पम्हो / Dugha. XXXIII. 1. 11. एकंसवचनं एक विभज्जवचनं परं / ततियं पटिपुच्छेय्य चतुत्थं पन ठापये | Ang. II. p. 46. 2-2 This whole passage (upto एष प्रश्नः स्थापनीयः) is almost identical with Akb. v. 22, The Akb. begins:-किं सर्वसत्वा मरिष्यन्तीत्येकांशेन व्याकर्तव्यं मरिष्न्तीति / ___3 Cf. एकसिका पि खो पोट्टपाद, मया धम्मा देसिता""अनेकसिका पि"""Digha. IX. 33. Also cf. न खो'त्थ सारिपुत्त सुकरं एकसेk व्याकातुं / Ang. I. p. 120. ___Cf. विभज्जवादो खो अहमेत्थ, माणव; नाहमेत्थ एकंसवादो। M. sutta 99. 5 पञ्चविधा हि पुच्छा-अदिट्ठजोतना पुच्छा, दिट्ठसंसन्दना पुच्छा, विमतिच्छेदना पुच्छा, अनुमतिपुच्छा, कथेतुकम्यता पुच्छा / Dhs A. III. 3. 6 Akb. has सत्त्वद्रव्यस्याभावात् वन्ध्यापुत्रश्यामगौरतादिवत् / The Kosakara gives three other illustrations (of the four prashnavya karanas) according to Bhadanta Rama, the Abhidharmikas and the Mahasanghikas. See Saks. pp. 465-7. __Cf. अस्ति प्रश्न एकान्तवचनीय: सर्वो जातो मरिष्यति / ॐ भो इति / अथ सर्वे मृत्वा जनिष्यन्त इति विभज्य वचनीयमेतत् / प्रमुदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यते इतरस्तु जनिष्यते / तथा मनुष्यजातिः श्रेयसी वा न श्रेयसी ? इत्येवं परिपृष्टे