________________ पञ्चमोऽध्यायः। प्रथमः पादः उक्तानि कर्मानि(ण)। अथ यदयं लोकः पञ्चगति' चक्रावर्तपरिवर्तनिमित्तानि कर्माण्याचिनोति, कार्याणि चोत्सृज्याकार्यकर्मकारी भवति, दक्षिणं च मार्ग हित्वा वामं वमश्रियति, परमप्रशान्तं च परं ब्रह्मापास्यानेकदुःखोपद्रवनीडभूते संसारे जन्म प्रतिपद्यते तत्र को हेतुरित्यभिधीयते[259] अकार्यप्रवणो लोको दुःखभागी च यद्वशात् / रागादी न भवसंबन्धान्क्लेशान्वक्ष्यामि तानहम् / / ते पुनः क्लेशाः [260] स्वशक्तिजकियोद्भविशेषेस्ते तु नामभिः / आत्तसामान्यसंज्ञाकाश्चोद्यन्तेऽनुशयादिभि[:] // तत्र तावत्सामान्यसंज्ञा स्वक्रियानिर्जाता: क्लिश्नन्तीति क्लेशाः३ अनुशेरत 1 नरकप्रेततिर्यग्मनुष्यदेवगतयः / 2 Cf. आसयन्त्यास्रवन्त्येते हरन्ति श्लथयन्त्यतः / __उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः // Ak. v. 40. 3 क्लेशो हि प्रवर्तमानो दशकृत्यानि करोति / मूलं च दृढीकरोति, सन्ततिमवस्था•पयति , क्षेत्रमापादयति, निःस्यन्दं प्रवर्तयति, कर्मभवमभिनिहरति, स्वसंभारं परिगृह्णाति, आलम्बने संमोहयति, विज्ञानस्रोतो नमयति, कुशलपक्षाद्वयुत्क्रामयति, बन्धनाथं च स्फुरति धात्वनतिक्रमयोगेनेति / Akb. v. 1a. -यो धर्मो उत्पद्यमानोऽप्रशान्तलक्षण उत्पद्यमानेन येन कायचित्तप्रबन्धाप्रशमप्रवृत्तिः। इदं क्लेशलक्षणम् / Asm. p. 43. Cf. अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः / ..."क्लेशा इति पञ्चविपर्यया इत्यर्थः। ते स्थन्दमाना गुणाधिकारं द्रढयन्ति परिणाममवस्थापयन्ति कार्यकारणस्रोत उन्नमयन्ति परस्परानुग्रहणतन्त्रीभूत्वा कर्मविपाकं चाभिनिहरन्ति। roga-bha shya, II. 3. ___Also cf. संसारस्य हि कर्म क्लेशाश्च कारणम् / तयोश्च क्लेशः प्रधानम् / तथा हि क्लेशाधिपत्यत्वात् कर्म पुनर्भवाक्षेपसमर्थ भवति नान्यथा। तथा आक्षिप्तपुनर्भवमपि कर्म क्लेशाधिपत्यादेव पुनर्भवो भवति नान्यथा। एवं च क्लेशा एव संसारप्रवृत्तेः प्रधानत्वान्मूलम् / Tvb. 19.