________________ अभिधर्मदीपे [138. __ 'अथ किमायुःक्षयादेव मरणं भवत्याहोस्विदन्यथाऽपि 2 प्रज्ञप्त्यामु-' *क्तम-"अस्त्यायुःक्षयान्मरणं न पुण्यक्षयादिभिः ? चतुष्कोटिकः। प्रथमा कोटि:-आयुर्विपाकस्य कर्मणः पर्यादानात्। द्वितीया-भोगविपाकस्य / तृतीया-उभयोः। तुर्थी-विषमापरिहारेण / ' . ज्ञानप्रस्थान "उक्तम् - "आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् ? सकृदुत्पन्न तिष्ठतीति वक्तव्यम् ? ग्राह-कामावराणां सत्त्वानाम संज्ञिसमापत्ति निरोधसमापत्ति वा समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् / समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् / समापन्नानां रूपारूप्यावचराणां च सत्त्वानां सकृदुत्पन्न तिष्ठतीति वक्तव्यम् / " .. कः पुण (न) रस्य भाषितस्यार्थः ? यस्याश्रयोपघातादुपधातस्तत्सन्तत्यधीनत्वात् प्रथमम् / यस्याश्रयोपघात एव नास्ति तद्यथोत्पन्नाव स्थानाद द्वितायम्। सान्तरायं प्रथमं निरन्तरायं द्वितीयमिति काश्मीराः / तस्मादस्त्यकालमृत्युः / 1.1. This whole passage is almost identical with Akb. II. 45 ab. After विषमापरिहारेण, the Akb. has : आयुरुत्सर्गाच्चेति वक्तव्यम् ? न वक्तव्यम् / आयु:क्षयादेव तन्मरणम् / प्रथमकोटयन्तर्गमात् / क्षीणे त्वायुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यम् / . तस्माभयपक्षे सति मरणमायुःक्षयादित्युक्तम / 2. Cf. तत्थ मरणं ति एकभवपरियापनस्स जीवितिन्द्रियस्स उपच्छेदो। 'तं कालमरणं अकालमरणं ति दुविधं होति / तत्थ कालमरणं पुचक्खयेन वा आयुक्खयेन वा उभयक्खयेन वा होति / अकालमरणं कम्मुपच्छेदककम्मवसेन / Vm. VIII. 1-2. . Also cf. आयुःक्षय: कतमः। काले मरणम् / पुण्यक्षयः कतमः। अकाले मरणमपुण्यमरणम् / येन सत्त्वा आस्वादसमापत्त्यां रज्यन्ते। पुण्यक्षयाच्च हेतोः ते जीविताच्च्यवन्ते। कर्मक्षय: कतमः। उपपद्यवेदनोयकर्मणः अपरपर्यायवेदनोयकर्मणश्च उभयोः क्षयान्मरणम् / Asm. p. 39. . 3. Karmaprajnaptisastra, chap. XI. .... 4-4. From ज्ञानप्रस्थान उक्तम् to तस्मादस्त्यकालमृत्युः is identical with Akb. II. 45 ab. ___5. Jranaprhsthana, 15, 12. 6. 'यस्याश्रयोपघातादपघातस्तत्सन्तत्युपनिबद्धम्। इति / बहिर्वेशिकमतमेतत् / आश्रयसन्ततिप्रतिबद्धं तदायुरिति सन्तत्युपनिबद्धमित्युच्यते / काश्मीरमतेऽपि स एवार्थः / शब्दमानं तु भिद्यते / सान्त रायं निरन्तरायमिति / अथ वा सन्तत्युपनिबद्धमिति स्वसन्तत्युपनिबद्धं सन्तानवत्यैव तत्केवलं न तु सकृदुत्पन्नं तिष्ठतीति सान्तरायमित्युच्यते / अनेनागमेनास्त्यकालमृत्युरिति दर्शयन्नाह-सूत्रेऽप्युक्तं चत्वार आत्मभावप्रतिलम्भाः' इति विस्तरः / Sakv. p. 170. 7. See नस्थि अरहतो अकालमच्चूति कथा Ko. XVII. 2.-तत्थ 'नाहं भिक्खवे