________________ 115.1. द्वितीयोऽध्यायः। _अभिधर्मे तु दश पठ्यन्ते- "आश्रद्धयम्, कौसीद्यम्, मुषितस्मतिता, चेतसो विक्षेपः,' अविद्या, असंप्रजन्यम्, अयोनिशो मनसिकारः, मिथ्याधिमोक्षः, प्रौद्धत्यम्, प्रमादश्च” इति / ' तत्र मुषितस्मतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षाः पञ्चमहाभौमेषु पठिताः। क्लिष्टाऽक्लिष्टानामुभयेषां स्मृत्यादिस्वाभाव्यादितीह न पृथग्गण्यन्ते / तस्मात् षडेव क्लेशमहाभौमाः / प्रशुभे तु द्वे पाह्रीक्यमनपत्रपा॥' अकुशले तु चेतसि आह्रीक्यमनपत्राप्यं च द्वौ धर्मावकुशलमहाभौमिको भवतः। तत्राहीक्यं ह्रीविपक्षभूतो धर्मः / अनपत्राप्यमपत्राप्यस्येति / अकार्य कुर्वाणस्यालज्जा स्वात्मनो[5] ह्रीः / परेभ्यो [s] लज्जा अनपत्राप्यमित्यपरे / ' परीत्तक्लेशमहाभौमा निदिश्यन्ते / [115] मायाशाठ्यमदनोधविहिंसाप्रदष्टयः / 1. Cf. विक्षेप: कतमः / रागद्वेषमोहांशिकश्चेतसो विसारः / स पुनः स्वभावविक्षेपः बहिर्धाविक्षेपः अध्यात्मविक्षेपः दौष्ठुल्यविक्षेपः मनसिकारविक्षेपश्च / Asn p. 9. 2. Cf. ननु चाभिधर्मे दश क्लेशमहाभूमिकाः पठ्यन्ते / "आश्रद्ध्यं प्रमादश्चेति / " प्राप्तिज्ञो देवानांप्रियो न विष्टिज्ञः। का पुनरत्रेष्टिः / मुषितस्मृतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षा महाभूमिकत्वात् न क्लेशमहाभूमिका एवावधार्यन्ते / ""अत एवोच्यते 'ये महाभूमिकाः क्लेशमहाभूमिका अपि ते' इति। चतुष्कोटिकः / "स्त्यानं पुनरिष्यते सर्वक्लेशसंप्रयोगीति क्लेशमहाभूमिकेषु तस्यापाठे कस्यापराधः / एवं त्वाहुः / पठितव्यं भवेत्समाध्यनुगुणत्वात्तु न पठितम् / क्षिप्रतरं किल स्त्यानचरितः समाधिमुत्पादयेन्नोद्धत्यचरित इति / 'न ह्येते जातु सहचरिष्णुतां जहीतः। अतः षडेव क्लेशमहाभौमिकाः सिद्ध्यन्ति / Akb. II. 26... -'स्त्यानं पुनरिष्यते' इति विस्तरः / 'तस्यापाठे कस्यापराव' इति / किमस्य स्त्यानस्यापाठे ममापराधः / किमाभिधार्मिकस्येति / अभिधर्मकारस्यायमपराधो न ममेत्यभिप्रायः / स्त्यानस्य सर्वक्लेशसंप्रयोगित्वेनाभिमतत्वात् / ‘एवं त्वाः' इति / तत्र शास्त्रे स्त्यानस्यापाठे कारणमाहुराभिषामिकाः / "कथं हि नाम क्लिष्टो धर्मः शुक्लस्य समाधेरनुगुणो भविष्यति / "Saks. p. 131. See LVP Ak. II. pp. 151 and 161 and Asm. p. 9. 3. Cf. अकुशले त्वाहीक्यमनपत्रपा / Ak. II. 26 d. 4. The Pali Abhidharma has four:-अकुसलेसु पन मोहो, अहिरिकं, अनोत्तप्पं उद्धच्चञ्चेति चेतसिका अकुशलसाधारणा नाम / A Sangaho. II. 13. ___5. V. supra, p. 73. n. 1. 6. This should be प्रदाश and प्रक्ष.