________________ 72 अभिधर्मदीपे 113 प्रस्रब्धिश्चितकर्मण्यता। कायप्रस्रग्घिरप्यस्ति / ' सा तु तदानुकूल्याद्बोध्यङ्गशब्दं लभते / तद्यथा प्रीतिः। प्रीतिस्थानीयाश्च धर्माः प्रीतिबोध्यङ्गमुक्तं भगवता। सम्यग्दृष्टिसंकल्पव्यायामाश्च प्रज्ञानुकल्यात् प्रज्ञा. स्कन्ध इत्युक्ताः। तद्वत्कायकर्मण्यता चित्तकर्मण्यता बोध्यङ्गावाहकत्वात्तच्छब्देनोक्ता। उपेक्षा चित्तसमता चित्तानाभोगः२ संस्काराणि (नि)मित्ताभोगमध्यु. पेक्षानिमित्तप्रवन (ण)ता / 1. cf. प्रश्रन्धिर्दोष्ठुल्यप्रतिपक्षः कायचित्तकर्मण्यता। दौष्ठुल्यं कायचित्तयोरकर्मण्यता सांक्लेशिकधर्मबीजानि च / तदपगमे प्रश्रब्धिसद्भावात् / तत्र कायकर्मण्यता कायस्य स्वकार्येषु लघुसमुत्थानता यतो भवति / चित्तकर्मण्यता सम्यङ मनसिकारसंप्रयुक्तस्याह्लादलाघननिमित्तं यच्चैतसिकं धर्मान्तरं यद्योगाच्चित्तमालम्बने प्रवर्ततेऽतस्तच्चित्तकर्मण्यतेत्युच्यते / कायस्य पुनः स्प्रष्टव्यविशेष एव प्रीत्या हृतः कायप्रश्रब्धिर्वेदितव्या। प्रीतमनसः कायाः प्रश्रभ्यत इति सूत्रे वचनात् / इयं तद्वशेनाश्रयपरावृत्तितोऽशेषक्लेशावरणनिष्कर्षणकमिका / साप्रमादिका"। का पुनरसी। उपेक्षा Tob. 11. abc. प्रश्रब्धिः कतमा / कायचित्तदोष्ठुल्यानां प्रतिप्रश्रब्धेः कायचित्तकर्मण्यता / Asm. p. 6. Also cf. ननु च सूत्रे कायप्रश्रब्धिरप्युक्ता। न खलु नोक्ता। सा तु यथा कायिकी वेदना तथा वेदितव्या / कथं सा बोध्यङ्गेषु योक्ष्यते / तत्र तर्हि कायकर्मण्यतैव कायिकी प्रश्रब्धिर्वेदितव्या / कथं सा बोध्यङ्गमित्युच्यते / बोध्यङ्गानुकूल्यात् / Abb. II, 25. The Sthaviravadins, however, take the word kaya to mean the namaskandhas :-कायपस्सम्भनं कायपस्सद्धि, चित्तपस्सम्भनं चित्तपस्सद्धि / कायो ति चेत्थ वेदनादयो तयो खन्धा। उभो पि पनेता एकतो कत्वा' कायचित्तानं अवूपसमकरउद्धच्चादिकिलेसपटिपक्खभूता ति दट्ठब्बा / Vm XIV 14+ For the sanbodhi-anga, cf. पोतिमनस्स कायोपि पसम्भति / अयं वुच्चति पस्सद्धिसम्बोज्झङ्गो / Vbh. p. 227. 2. Cf. उपेक्षा चित्तसमता चित्तानाभोगता। कथमिदानीमेतधोक्यते / तत्रव चित्ते आभोगात्मको मनस्कारो प्रनाभोगात्मिका चोपेक्षा' इति / ननु चोक्तं- 'दुर्जान एषां विशेषः' इति / अस्ति हि नाम दुर्जानमपि ज्ञायते / 'इदं तु खल्वतिदुर्जानं यद्विरोधेऽप्यविरोध' इति / अन्यत्राभोगोन्यत्रानाभोग इपि कोऽत्र विरोधः / न तीदानीमेकालम्बनाः सर्वे सम्प्रयुक्ताः प्राप्तवन्ति / एवंजातीयकमत्रान्यदप्यायास्यतीति [V. infra, Adv. karikaa 123.] यस्तस्य नयः सोऽस्यापि वेदितव्यः / Akb. II 25. Also cf. उपेक्षा चित्तसमता चित्तप्रशठता चित्तानाभोगता। एभिस्त्रिभिः पदैरुपेक्षाया आदिमध्यावस्थानावस्था द्योतिता | Tob. A. 11. abc. For ten kinds of upeksha see Dh: A. III. 348-354. 3. Cf. तत्रमज्झत्तता-सा चित्तचेतसिकानं समवाहितलक्खणा, ऊनाधिकनिवारणरसा पक्षपातुपच्छेदनरसा वा; मज्झत्तभावपच्चुपट्टाना। चित्तचेतसिकानं अज्झुपेक्खनवसेन समप्पवत्तानं आजानेय्यानं अज्झुपेक्खनसारथि विय दट्ठब्बा / Dhs A. III. 254.