________________ 70 अभिधर्मदीपे [112 चित्तस्य विषयेऽधिमुक्तिरवि (धि) मोक्षो' रुचिद्वितीयनामा चित्तस्य' विषयाप्रतिसंकोचलक्षणः। धीः प्रज्ञा धर्मसंग्रहाद्युपलक्षणस्वभावा'। चित्तस्यैकाग्रता समाधिश्चित्तस्थितिलक्षणः / चित्तस्याभोगो मनस्कारः पूर्वानुभूतादिसमन्वाहारस्वरूपः। सूक्ष्मः खलु चित्तचत्तानां विशेषो दुरवधारो रूपिनी(णी)नामेव तावदोषधीनां बहुरसानामिन्द्रियग्रा ह्योऽपि रसविशेषो दुरवधारः, किमङ्ग पुनर वेदनासंनिश्रयकर्मकः / इन्द्रियविषयविज्ञानानि त्रीण्येव त्रिकं तस्य कार्यकारणभावेन समवस्थानं त्रिकसंनिपातः / तस्मिन् सति तत्समकालमेवेन्द्रियस्य सुखदुःखादिवेदनानुकुलो यो विकारस्तेन सदशो विषयस्य सुखादिवेदनीयाकारपरिच्छेदो यः स स्पर्शः / इन्द्रियं पुनर्येन विशेषेण सुखदुःखादिहेतुत्वं प्रतिपद्यते स तस्य विकारः / स्पर्शः पुनरिन्द्रियविकारसादृश्येनेन्द्रियं स्पृशतीन्द्रियेण वा स्पृश्यत इति स्पर्श उच्यते / Tvb. 3 cd. 1. f. अधिमोक्षः कतमः / निश्चिते वस्तुनि यथानिश्चयं धारणा। असंहार्यताकर्मकः। Asm. p. 6. अधिमोक्षो निश्चिते वस्तुनि तथैवावधारणम् / निश्चितग्रहणमनिश्चितप्रतिषेधार्थम् / युक्तित आप्तोपदेशतो वा यद्वस्तु असंदिग्धं तनिश्चितं येनैवाकारेण तनिश्चितमनित्यदुःखाद्याकारेण तेनैवाकारेण तस्य वस्तुनश्चेतस्यभिनिवेशमेतन्नान्यथेत्यवधारणमित्यधिमोक्षः / Tvb. 10 c. अधिमुक्तिनिश्चयाधधारणम् / Aaa. p. 353. - 2.. Cf. 'अधिमुक्तिस्तदालम्बनस्य' गुणतोऽवधारणम् णात्। रुचिरित्यन्ये / यथानिश्चयं धारणेति योगाचारचित्ता: / Saks. p. 128. For various interpretations of this term, see LVPAR II. p. 154. ___Also cf. अधिमुच्चनं अधिमोक्वो। सो सन्निट्ठानलक्खणो, असंसप्पनरसो, निच्छयपच्चुपट्टानो"आरम्मणे निच्चलभावेन इन्दखीलो विय दट्टब्बो / Dhs A III. 254. 3. Cf. तेन तेन वा अनिच्चादिना पकारेन धम्मे जानाती ति पञ्चा""चत्सच्चधम्मे विचिनातीति धम्मविचयो / Dhs A. III 287 4. Cf. किरिया कारो, मनस्मिकारो 'मनसिकारो' / पुरिममनतो विसदिसं मनं करोति ति पि मनसिकारो। स्वायं आरम्मणपटिपादको वीथिपटिपावको जवनपटिपादको ति तिप्पकारो।" Dhs A. III 254. ___Also cf. मनस्कारश्चेतस आभोगः। आभुजनमाभोगः / आलम्बने येन चित्तमभिमुखीक्रियते / स पुनरालम्बने चित्तधारणकर्मा / चित्तधारणं पुनस्तत्र आलम्बने पुनः पुनश्चित्तस्यावर्जनम् / एतच्च कम चित्तसन्ततेरालम्बननियमेन विशिष्टं मनस्कारमधिकृत्योक्तं न तु यः प्रतिचित्तक्षणं तस्य हि प्रतिक्षणमेव व्यापारो न क्षणान्तरे / Tvb, 3 cd. Also cf. मनस्कारः कतमः ? चेतस आभोगः / आलम्बनचित्तधार गकर्मकः / Asm p. 6. .