________________ अभिधर्मदीपः विभाषाप्रभावृत्तिसहितः। प्रथमोऽध्यायः। प्रथमः पादः / [I. B, 1; Fol. la] ॐ स्वस्ति / नमः सर्वज्ञाय / [1] यो दुःखहेतुव्युपशान्तिमार्ग प्रदर्शयामास नरामरेभ्यः / अत्र षष्ठीसमासपरिग्रहे सति मार्गसत्यं प्रधानम्। तथा चोक्तम्"मार्गविदो(द)हं मार्गस्य.............'' [इति] विस्तरः / तदुक्तं भवति-यो देवमनुष्येभ्यो मार्ग प्रदशितवानिति / समाहारलक्षणद्वन्द्वपरिकल्पे [तु चतुर्णामप्यार्यसत्यानां प्राधान्यम् / तथा चोक्तम्- "इदं दुःखसत्यमिति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु धर्मचक्षुरुदपादि" इति विस्तरः / तदुक्तं भवति-यो देवमनुष्येभ्यश्चत्वार्यसत्यानि प्रदर्शितवानिति / तत्र दुःखसत्यमेकविधमभिनिर्वत्तिस्वाभाव्यात् / तथा चोक्तम्- "दुःखा हि भिक्षवो भवाभिनिर्वृत्तिः" इति / जात्याद्यष्ट प्रकारं वा फलभूता वा पञ्चो ? A blank space of about five letters in the MS. 2 Cf. इदं दुक्खं अरियसच्चं ति मे भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खु उद. पादि, आणं उदपादि, विज्जा उदपादि, आलोको उदपादि Vinaya, I. p. 11. . Cf. also, इति दुःखमिति मे भिक्षवः पूर्वमश्रुतेषु धर्मेषु योनिसो मनसिकाराद्वहुलीकाराज्ञानमुत्पन्नं चक्षुरुत्पन्नं मेधोत्पन्ना प्रजोत्पन्ना मालोकः प्रादुर्भूतः / Lalita-vistara, 'p. 417. 3 Cf. इदं खो पन भिक्खवे, दुक्खं अरियसच्चं-जाति पि दुक्खा, जरा पि दुक्खा, व्याधि पि दुक्खा मरणं पि दुक्खं, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो, यं पि इच्छं न लभति तं पि दुक्खं, सङ्कित्तेन पञ्चुपादानक्खन्धा पि दुक्खा / Vinaya, I. p. 10. Cf. also, Lalita-vistara, p. 417.