________________ सुमतिजिनस्य शत्रुञ्जयसमवसृतिस्वरूपम् 46 0000000 एकः पान्थो जगौ लब्धो मयैकः प्रस्तरोऽधुना / रोचते यदि ते लाहि दत्त्वा द्रमाष्टकं मम // 41 / / पथिकाय द्रमानष्टौ वितीर्य चम्पकस्तदा / ग्रहीत्वा प्रस्तरं तं च समाययौ स्वमन्दिरे // 42 // तस्मात् प्रस्तरतः कोटि-द्रमानासाद्य विक्रयात् / महेभ्यो राजमान्योऽभूत् चम्पकवेष्ठिनन्दनः / / 43 // मृत्यु गतेऽथ जनके चम्पको गृहनायकः / अभिनन्दनसर्वज्ञ-पार्थे जैनं वृष ललौ // 44 // क्रमात् स्वसूनवे गेह-भारं वितीय रङ्गतः / अभिनन्दनसार्वान्ते संयमं प्राप्तवान् ध्रुवम् / / 4 / / गुरूपान्ते वृषं श्रुत्वा मधुः श्रीजिनपूजनम् / कुर्वन्नुपार्जयामास पुण्यं मुक्तिगमोचितम् // 46 // धर्मिणां धर्मधिषणां कर्मिणां कर्मशेमुषीम् / मधुश्रेष्ठी ददन् नित्यं श्लाध्योऽजनि नृपादिषु // 47 // क्रमान्मधुर्जिनोपान्ते लात्वा दीक्षां दरांद्गवः (दराद्गतः) / साधुना चन्दनेनाऽमा विहारं तनुते मुदा // 48|| गत्वा शत्रुञ्जये तीर्थे कृत्वा तीव्र तपः पुनः / चन्दनो मधुना साद्ध केवलज्ञानमाप्तवान् // 49 / / * इति अभिनन्दनस्य शत्रुञ्जयागमनसम्बन्धः // अथ सुमतिजिनस्य शत्रुञ्जयसमवसृतिस्वरूपम् / / सुमतिस्तीर्थकृद् भव्य-जीवान् धर्मे विबोधयन् / कोटाकोटिसुरैः सेव्यः सिद्धाद्रौ समवासरत् // 1 // तत्र स्थिते प्रभौ वाचं-यमाः लक्षद्वयप्रमाः / क्षीणकर्माष्टका मुक्तिं नगरी समुपागमन् // 2 // व्ययन धर्म धनं जीवो न्यायमार्गाजितं खलु / लभते शावतं शर्म कुन्तलश्रेष्ठिवत् क्रमात् / / 3 // पद्मानन्दपुरे पद्मनाभो वणिगभूद्वरः / तस्य पत्नी कलादेवी कलासु कुराला किल // 4 // व्यवसायं वितन्वानः श्रेष्ठी लक्षं द्रमान क्रमात् / अर्जयामास नो धर्मे व्ययति स्म च कर्हिचित् // 5 // तस्याभूनन्दनश्चन्द्र-नामा मजुलविग्रहः / ताते मृतेऽभवत् स्वामी विभवस्यासमस्य स / / 6 / / चन्द्रस्याभूत् क्रमाद् द्रव्यं लक्षद्वयमितं स्फुटम् / मृते तस्मिन् सुतो लक्ष-त्रयस्वामी मनोऽजनि // 7 // मने मृते च तत्पुत्रः सिंहाह्वोऽजनि सुन्दरः / तस्याभवच्चतुर्लक्ष-प्रमितो विभवः क्रमात् / / 8 / / सिंहे मृत्यु गते हस्ति-नामाऽजनिष्ट तत्सुतः / पञ्चलक्षद्रमस्वामी सोऽप्यभूदर्जयन् धनम् / / 9 / / तस्याऽजनि प्रिया गङ्गा-देवी गङ्ग व निर्मला / गङ्गा वक्ति प्रियेदानीं धर्मे व्यय धनं सदा // 10 // धर्मकृत्येषु या लक्ष्मी स्थाप्यते साऽतिसुन्दरा / अन्याऽवकेशभूमीव लक्ष्मीवान्नैव शम्यते // 11 // यतः-'अधः क्षिपन्ति कृपणा वित्तं तत्र यियासवः / सन्तस्तु गुरुचैत्यादौ तदुच्चः फलकाक्षिणः // 12 // एकदा श्रीगुरूपान्ते हस्त। नत्वा गुरुक्रमौ / धर्म श्रोतुमुपाविष्टो यावत्तावद् गुरुर्जगौ // 13 // अभयं सुपत्तदाणं अणुकंपा-उचिअ-कित्तिदाणं च। दोहिवि मुक्खो भणियोतिनिवि भोगाइ दिति॥१४॥ न कयं दीणुद्धरणं न कयं साहम्निमाण वच्छल्लं / हि अपम्मि वीयरात्रो न धारियो हारियो जम्मो॥१५॥ व्याजे स्याद् द्विगुणं वित्तं व्यवसाये चतुर्गुणम् / क्षेत्रे शतगुणं प्रोक्तं पात्रेऽनन्तगुणं भवेत् // 16 // श्रुत्वा धर्म जगौ हस्तो मया जिननति विना / नो भोक्तव्यं पयः पेयं शयितव्यं कदाचन // 17 // सोऽप्रणम्यैकदा साव भोक्तु यावदुपाविशत् / तावत् पत्नी जगौ स्वामिन् ! न नतोऽद्य त्वया जिनः॥१८॥