________________ मात्रा स्वस्रा सत्रा सुदीक्षित-सप्तविंशतिसंख्यसुदीक्षितस्वजनसम्बन्धिक-कर्मग्रन्थादिविचारचतुरमुनिपुणमतिराजित-पूज्य-गणिवर्यश्रीसूर्योदयसागरजित्महाराजप्रेरणया पूज्याऽऽचार्यपादसुभक्तिरागाश्चितश्राद्धवर्यैः पूज्यागमाद्धारकाचार्यैराजीवन वाचना-पठन-पाठन-व्याख्यानुयोगादिरूपेण कृतायाः श्रुतभक्तेरुपबृंहणाय तैः प्रस्थापितां श्रुतभक्तिं समुपजीवयन्ती 'श्रीआगमोद्धारक-ग्रन्थमाला' पूज्यागमाद्धारकाचार्यश्रीसन्दृब्धधिविधसाहित्य तैः पूज्यपुरुषैश्च मुद्रणाय सङ्कलितग्रन्थराशिगतं महत्त्वपूर्ण साहित्य पूज्यगच्छाधिपतिनिश्रया प्रकाशमाप्नुयादिति निर्णयस्य मूर्तस्वरूपभूता संस्थापिता / पतया ग्रन्थमालया च षोडशवर्षीययाऽद्ययावत् विविधानि भव्यजनोपयोगीनि पुस्तकानि पूज्यागोद्धारकाऽऽचार्यविरचितानि प्रकाशितानि ततश्च यथोत्तरमेषा च ग्रन्थमाला सुविशदाज्वलयश:ख्यातिमाप्नुवती, शिरोरत्नभूतो ह्येष ग्रन्थ एतस्या ग्रन्थमालायाः नाऽद्यावधि कुत्रापि प्रतिशर्करमनन्तसिद्धावासभूतस्य गिरिराजस्य विमलाद्रेः विविध विषयविवेचकः माहात्म्यख्यापकः सुन्दरतमदृष्टान्तोपनिबद्धव्याख्यासनाथः बालजीवोपयोगी प्रकाशितो वर्त्तते / अत एव वार्धक्यशरीरापाटवनैकविधशासनसम्बन्धिकार्य जातव्यापृतिप्रभृतिप्रत्यपायानविगणय्य तत्त्वविवेचक-शान्तमूर्ति-करुणावात्सल्यपरिपूर्णान्तःकरण-श्रीमद्गच्छाधिपतिभिः गुरुभक्तिसेवापरायणविद्वन्मतल्लिकाज्योतिषशास्त्रसुनिपुण-प्राचीनशास्त्रसंशोधनादिकार्यसुदक्ष-पूज्यगणिवर्यश्रीलाभसागरजिन्महाराजद्वारैतद् ग्रन्थमुद्रापणं विहितमेतद्धि अतिशयेन प्रमादावह गुणगरिमाञ्चितविदुषां सरलाशयमुमुक्षुताविभ्राजिबालजीवानां चेति / : प्रान्ते च प्रार्थये समधिकपवित्रपरमाणुपुञ्जमय-श्रीशैलेन्द्रनगाधिराज-श्रीशत्रुञ्जयस्य तीर्थस्य महिमव्यावर्णनगर्भस्य कल्पस्यैषा भूरिप्रथितैतिह्यचरितकथासन्दर्भात्मिकां सुविशदतरां वृत्तिं सम्प्रधार्य सुरुचिपूर्व भावोल्लासवृद्धये एतद्वाचनादि समुपयुज्य समेऽपि भव्यजीवाः कल्याणपथगामिना भवेयुरिति शुभाशंसापूर्व प्रचुरपुण्यसन्दाहलभ्यस्य विमलाद्र्रतस्थ लघुकल्पव्यावर्णनस्वरूपस्य ग्रन्थस्य 'प्रास्ताविक' लिखनसौभाग्यं वात्सल्यवारांनिधि-प्रशमपयोनिधि-पूज्यतमगच्छाधीश्वरप्रेरणया सहृदयि तनोत्तसविद्वन्मतल्लिकाश्रीलाभसागर गणिवरैः सम्पादितमिति च भूयोभूयोऽनुमोदये एतादशं स्पृहणीयसेवाऽवसरप्राप्त्या शासनपद्धत्या कर्मनिर्जरापथि समुत्सर्पणलाभाधिगत्येति विनिवेदये क्षयोपशमवैचित्र्यमूलक-स्वस्खलनासम्बन्धि मिय्यादुष्कृतदानपूर्व पूज्यागमोद्धारकाचार्यश्रीपट्टविनेय-श्रीसिद्धचक्राराधनतीर्णोद्धारक-वैयाकरणकेशरी स्वर्गताचार्यश्रीचन्द्रसागरसूरिवरश्रीपरमविने-यशान्तमूर्ति-तपस्विधुरीण-शासनसंरक्षक-सुगृशितनामधेयतारकवर्य-पूज्यगुरुदेवोपाध्यायश्रीधर्मसागरजिन्महाराजचरणारविन्दमिलिन्दायमानोऽभयान्धिः श्रमणसध सेवकः इति / - जैन उपाश्रयः इन्द्रपुर: (इन्दार) (म. प्र.) वीर नि. सं. 2496 वि. सं. 2026. शुभं भूयात् सर्वजीवानाम् /