________________ 34 कदम्बकनामोपरि इन्द्रशोष्ठिकथा .0000000 000000000000000000000000000 10000000000.0000000 200000000000000000000000000000000000000000000000000000000000000000000 सुरसुन्दर्यवक् कान्त ! पुरुष व कर्हिचित् / कातयं क्रियते तस्मात् त्वमत्र साहसं कुरु // 61 // "अपमानं पुरस्कृत्य मानं कृत्वाऽद्य पृष्ठतः / कार्यमुद्धरते प्राज्ञः कार्यभ्रशो हि मूर्खता // 62 // दोषेणैकेन न त्याज्यः सेवकः सद्गुणोधिपः / धूमदोषभयार्निहि केनाप्यपास्यते // 63 // अत्याचारमनाचार-मतिनिन्दामतिस्तुतिम् / अतिशौचमशौचं च षडेते जडबुद्धयः // 64 // तेजस्विनां मनस्तुङ्ग नभखदन्तदशास्त्रपि / गच्छतस्तरणरस्तं स्फुटपूर्ध्वमरीचयः // 6 // जल्पितं सुरसुन्दर्याः श्रुत्वा भीमो जगावदः / भो पत्नि ! यत्त्वया प्रोक्तं तद्वयं रोचते मम // 66 // यदि ताभ्यां गृहिणीभ्यामहं पशुः करिष्यते / तदा किं क्रियते तत्र मया त्वया च तत्र हि // 67 // सुरसुन्दर्यवक कान्त ! मां लात्वा स्वगृहे व्रज / सर्व ते सुकरं तत्र करिष्येऽहं सुखग्रहम् // 6 // यतः-'महिषविषाणे मशकः शशकः शैले पिपीलिका पङ्क। सच्चरित्रे गुणिनि जने पिशुनः कुपितोऽपि किं कुरुते आकण्यति प्रियावाक्यमायतौ हितकारकम् / भीमो दध्यौ गुणैः श्लाघ्या ममेयं गेहिनी किल // 7 // यतः-"ऋतुर्वसन्तः प्रियवादिनी प्रिया, प्रभुगुणज्ञो गुणगौरवक्रिया। सुतो विनीतः समये घनाघनः, करोति नो कस्य मुदास्पदं मनः ? // 71 // " गृहिणीप्रेरितो भीमः सप्रियः स्वपुरं प्रति / चलन् ततो निजे ग्रामे समागात् मुदिताशयः // 72 // द्वाभ्यां सहचरीभ्यां स सप्रिय आगतस्तदा / निरीक्ष्य स्वागतं चक्रे तस्यास्तस्य च सादरम् // 73|| आलोचि पूर्वपत्नीभ्यां स्थिता रहसि तत्क्षणम् / आवाभ्यां विहितः कीर एष पूर्व पतिः स्वयम् // 74 न तदा निहतो मह्यां, (भूद्यः) कृतः पञ्जरगः शुकः / आवयोः कीरकरणं ज्ञातं भाव्यमुना ननु // 7 // आगतः प्रेयसीयुक्तोऽधुनाऽत्र रमणः खलु / मण्डयित्वा छलं छन्नमावामेव भविष्यति // 76 / / तेनाऽऽत्राभ्यां विधातव्य उपाय एव साम्प्रतम् / स्वीयजीवितरक्षायै अभीष्टा असवो यतः // 77|| यतः-" सव्वे जीवावि इच्छंति जीविउं न मरिजिउं / तम्हा पाणिवहं घोरं निग्गंथा वजयंति णं // 7 // " विचार्येति तदा ताभ्या-मुक्तं विनयपूर्वकम् / भो पते ! त्वं कुरु स्नानं कृतमुष्णं जलं वरम् // 76 / / भीमः स्नानं यदा कर्त्त मुपविष्टः सुविष्टरे / तदा ताभ्यां पयःपूर्णी कुल्या नीता गृहान्तरे // 8 // स्नानं वितन्वतस्तस्य भीमस्य तनिकेतनम् / प्रपूर्ण पयसा शीर्ष यावत् सर्वत्र तत्क्षणात् / / 81 // जले भीमो ब्र डन्नाह श्राक सुरसुन्दरी प्रति / मग्नोऽहं साम्प्रतं पत्नि ! पूर्वोक्तं त्वं कुरु द्र तम् // 2 // सुरसुन्दर्यवक् कान्त ! मा त्व भीतिं कुरु प्रभो ! / अहमत्र स्थिता त्रातु त्वां नीराच प्रत्तदम् // 83 // मजन्तं मानवं वार-त्रयं स्वोर्ध्व पयः स्वयम् / उच्छालयति निष्पाप-कृते ख्यातिः समस्ति हि // 84 // उच्छलितेऽम्भसा वार-त्रयं पत्यौ तदोव॑तः ।फुम्फया सुरसुन्दर्या गमितं निखिलं पयः // 85 / / द्वाभ्यां हुकाररावाभ्यां द्वे सपत्न्यौ दुराशये / शकुन्यौ विहिते मन्त्रात् श्रीदनन्दनया तदा // 86 / / ततः पाणिगृहीतीनां तिसृणां दुष्टचेष्टितम् / मत्वा भीम इदं दध्यौ किमत्र स्थीयते मया ? ||8|| एवं ध्यात्वा क्षणं त्यक्त्वा गहिनीत्रितयं तदा / प्रययौ बहिस्याने सुव्रताचार्य सन्निधौ // 8 // श्रीगुरुभिस्तदा ज्ञान-शालिभिः करुणात्मभिः / उपदेशो ददे तस्मै कैवल्यसौख्यदायकः / / 6 / / तथाहि-अशुभं वा शुभं वापि स्वस्वकर्मफलोदयम् / भुञ्जानानां हि जीवानां कर्ता हर्ता न कश्चन // 10 //