________________ 248 शत्रुञ्जय-कल्पवृत्ती माहात्म्यं शुश्रावेति कृतादरः॥चो दृष्टो दुर्गति हन्ति प्रणतो दुर्गतिद्वयम् / सङ्घशार्हन्त्यपदकृत् स जीयाद् विमलोचलः // सिंहव्याघ्राहिशम्बर-पक्षिणोऽन्येऽपि पापिनः / दृष्ट्वा शत्रुञ्जयेऽर्हन्तं भवन्ति स्वर्गगामिनः / / एकोनसप्ततिकोटा-कोटिर्यत्र जगद्गुरुः / पञ्चाशीतिकोटिलक्षाः प्राप्तवान् पादुकापदे // चतुश्चत्वारिंशत् कोटी-सहस्ररधिका पुरा / तं सिद्धाचलमानौमि सर्वतीर्थफलप्रदम् // श्रुत्वेति भूपतिः शत्रु-अयमाहात्म्यमादरात् / सस्मार सन्ततं तीर्थ-स्तोत्रं च स्मरति स्म हि // स्मरन् शत्रुञ्जयं तीर्थं स्वस्थानस्थो महीपतिः / सर्वकर्मक्षयं कृत्वा केवलज्ञानमाप्तवान् / / पृथ्वीपालयतिः पृथ्वीं बोधयन् जिनधर्मणि / आयुःक्षये ययौ मुक्ति-नगरी भूरिसाधुयुग / / 23 // इति श्रीशत्रुञ्जयस्मरणविषये पृथ्वीपालभूपकथा / अत्रानुक्तोऽपि कियान् सम्बन्धो लिखितो मया सक्षेपात् आदिचक्री विधायाद्य-यात्रां सिद्धमहीधरे / आद्यार्हत्सदनं प्रौढ-मकारयन्मनोहरम् // बिम्ब मणीमयं तत्र प्रासादे प्रथमप्रभोः / अस्थापयत्तदा चक्रो महामहःपुरस्सरम् / / लक्षाणामेकनवति-श्चतुरष्ट सहस्रयुग् / भूपाश्छत्रधरा आसन् सधेशे भरते सति / / भूपाइछत्रधराश्चक्रवत्योराद्यद्वितीययोः / अन्तरे चाभवन् सङ्ख्या-तीता सङ्घाधिपाः क्रमात् [ सङ्घपतयस्तेषां सङ्ख्या न विद्यते ] / / उद्धारा येऽभवन् शत्रु-जये जिनेन्द्रसद्मनः / तेषां सङ्ख्या मया नैव ज्ञायते मन्दबुद्धिना |युग्मम् / / चक्रिणा सगरेणादि-जिनगेहोद्धतिस्तदा / कारिता त्रपुणा स्थापि बिम्बं मणीमयं पुनः // पश्चाशत्कोटयो लक्षा पञ्चभिर्नवतियुता / सहस्राः पञ्च सप्तत्य-धिका सगरवाटके / / भूपाइछत्रधराः सङ्घ पतीभूय शिवाचले। आगता वृषभं देवं नन्तुं स्वस्वपुरात्किल / सगरात् पाण्डवान् याव-दुद्धारा येऽभवन् वसः। ज्ञायते नहि तेषां तु सङ्ख्यो विचक्षणैरपि // कीरकाष्ठमया नाभि-पुत्र सद्मोद्धतिः पुनः / कारिता पाण्डवैलेप-मया च प्रतिमा प्रभोः // वारके पाण्डवानां तु पञ्चविंशतिकोटयः / पञ्चनवतिलक्षाश्च सहस्राः पञ्चसप्ततिः / / सङ्घयुक्ताः शिवक्ष्माभ्रे गत्वा नत्या जिनेश्वरम् / स्वस्मिन् सङ्घाधिपत्वं तु स्थापयामासुरादरात् / / ॥युग्मम् // मध्ये विक्रमभानोश्च पाण्डवानां महीभुजाम् / सहस्राश्चतुरष्टौ च सङ्घशा अभवन् क्रमोत् / / विक्रमार्काद्वसुखक्ष्मा-प्रमाणे वत्सरे गते / बिम्बस्योद्धतिमादधे जावडिनैगमोत्तमः / / सम्प्रति-विक्रमादित्यसाताऽऽम-पादलिप्तकाः। कारयामासुरुद्धारं शत्रुञ्जयमहीधरे / / प्रासादोद्धारमादः श्रीमाली बाहडाभिधः / वत्सरे द्वादशशते द्वाविंशेऽब्दे च विक्रमात् / / तत्र नाभेयदेवस्य बिम्ब त्रिभुवनार्चितम् / बाहडः स्थापयामास नानोत्सवपुरस्सरम् / / ऊकेशवंशकोटीरः समरः साधुशेखरः / प्रतिमा स्थापयामास समहं सिद्धपर्वते // जोवडेः श्रेष्ठिनो मध्ये श्रीसाधोः समरस्य तु / श्राद्धा लक्षात्रयःपञ्च-पष्टिसहस्रसम्मिताः / / सधेशा अभवन् भाव-साराः सङ्घाधिपाः क्रमात् / सहस्राः सप्ततिः शत्रु-जये तीर्थाभिवन्दनात् / / थुग्मम् // सङ्घशाः क्षत्रिया वर्याः षोडशप्रमितोः क्रमात् / पञ्चदश सहस्राश्च जनाः सङ्घाधिपा द्विजाः / / सहस्रा द्वादशोना सङ्घनाथाः कुटुम्बिनः / लेतुकाश्च नव तथा सहस्रा अभूवन् क्रमात् / / सङ्घेशाः कांस्यकारास्तु सहस्राः पश्च शोभनाः / शत्रुञ्जयेऽनमन् पञ्च-चत्वारिंशद्यूता जिनम् / / अन्त्यजाः समपाः