________________ 146 शशुञ्जय-कल्पवृत्ती दन्ताबनगरे दन्त-चक्रस्य मेदिनीपतेः / प्रिया प्रीतिमती शुद्ध-शीलमाणिक्यमन्दिरम् / राजा न्यायाध्वना पृथ्वी-मपालयत्तथा सदा / यथाऽभूजनता सर्वा सुखिनी प्रतिवासरम् / / यतः-" राशि धम्मिणि धर्मिष्ठा पापे पापाः समे समाः / राजानमनुवर्तन्ते यथा राजा तथा प्रजा // 1 // " प्रीतिमत्याः प्रियायोस्त्व-न्येयुः करटिनां रदैः / प्रासादकारणे जातो दोहदो वृषभप्रभोः / / राज्ञा वनेचराः कुम्भि-दन्तानयनहेतवे / आदिष्टा द्रविणं लात्वा कानने समुपागमन् // अन्यैः कैरपि न दन्ता गृहीतव्या नरादिभिः / योन्तरा लान्ति दंतांश्च तस्य दण्डो विधास्यते // इतस्तत्र पुरे सोम-मित्रस्य कमलोरमे / गेहिन्यौ समजायेतां रतिप्रीतिसमे श्रिया / / अन्यदा रमया प्रोचे रूपात्वं गर्विता कथम् / प्रीतिमत्या यथा सद्म हस्तिदन्तैर्विधीयते // तथा किं ते विधीयेत कुम्भिदन्तैनिकेतनम् ? / प्रोक्तं कमलया वाणी तव सत्या करिष्यते / / युग्मम् / / कृशां पत्नों निरीक्ष्यावक कमले ! किं त्वं कृशाऽभवः / कमला स्खचिन्तितं सर्वं पत्युरग्रे जगावदः / / चन्द्रमित्रेण मित्रेण पृष्टो दुःखस्य कारणम् / सोममित्र उवाच स्व-पत्न्या मनोरथं समम् // चन्द्रमित्रः पुलिन्द्राणां मणिकालक्तकादिकम् / योग्यं लात्वा गतोऽटव्यां दन्तानयनहेतवे / / तृण- . पूलकमध्ये स क्षिप्त्वा कुम्भिरदान रहः / रथस्थान् नगरद्वारे चन्द्रमित्रो यदाऽगमत् // तदा गोकृष्टपूलात्तु हस्तिदन्तानपि निर्गतान् / वीक्ष्य भूपानुगा भूप-पार्वेऽनैषीत् तदा तकम् // भूपेनान्यायिनं मत्वा चन्द्रमित्रं तदा रुषात् / प्रोक्तं स्तेनस्य दण्डोऽस्य साम्प्रतं क्रियतां द्रुतम् / तदाभ्येत्य नृपोपान्ते नत्वा भक्त्यो नृपक्रमौ / प्राह चक्रे मया स्वामि-नन्यायः क्षम्यतां मयि // सोमस्तत्र प्रियास्वान्त-चिन्तितं भूपतेः पुरः। यदा प्राह तदा दन्ता दत्तास्तस्मै महीभुजा // तदा तं प्रणतं भूयो मत्वाऽवग सोमचन्द्र प्रभोः (1) / अतः परं न भूपस्य विरुद्धं क्रियतां त्वया // चन्द्रमित्रो नृपप्रोक्त-मङ्गीकृत्य तदा द्रुतम् / भूपसन्मानितः सोम-मित्रस्यान्तिकमीयिवान् / तदा कुम्भिरदैः सोम-मित्रपत्नीमनोरथः / दन्तसद्मविधानेन पूरितः सुहृदा तदा // राज्याश्च दोहदोऽपूरि कुम्भिदन्तैर्महीभुजा / नाभेयाहन्महत्सद्म-करणात्तत्क्षणे तदा / / तत्रान्यदो कलाचार्या विहरन्तोऽवनीतले। आगता भव्यजीवानां प्रबोधायाहतो मते // सोममित्रः स्वमित्रेण समं पत्नीद्वयान्वितः। धर्म श्रोतुं ययौ श्रीम-गरूणां सन्निधौ तदा // गुरुराह कृतो धर्मः स्तोकोऽपि प्रतिवासरम् / क्रमात् स्वर्गापर्वगादि जायते भव्यदेहिनाम् // शत्रुञ्जयस्य तीर्थस्य भक्त्या पठति यः स्तवम / तस्य स्तोकैर्भवैर्मुक्ति-सुखं भवति निश्चितम् / / श्रुत्वेति श्रीगुरूपान्ते सोममित्रः सुहृद्यतः / पत्नीद्वयान्वितोऽपाठीत् सिद्धाद्रिस्तवनं मुदा // त्रिसन्ध्यं पठतां तेषां सिद्धाद्रिस्तवनं मुदा / प्रथमत्रिदशावास-शर्माऽभूज्जीवितात्यये / / ततश्च्युताः समे देवा महाऽऽनन्दाभिधे पुरे / पद्मश्रेष्ठिसुताः जाताः कुन्दचन्द्रधनामराः / तत्रापि श्रीगुरोः पार्वे माहात्म्यं सिद्धभूभृतः। तत्र गत्वा युगादीश-मनमन् भक्तिपूरिताः // तत्रैव ध्यायतां तेषां पठतां स्तवनं मुदा / उत्पन्नं केवलज्ञानं क्रमात् सिद्धिरभूत् पुनः // 29 / / इति सिद्धाद्रिस्तोत्रपठने कथा / -