________________ करिविषये चतुमित्रकथा 135 वालि विषं तु गुरुणा तदा // तच्छिष्यः क्षमकृष्टयाह-श्चतुर्विशतिमन्यदा / ललावमिग्रहानेवं गुरुपार्श्वसुभक्तितः / / कान्दविकालये त्राणानेकविंशति सम्मिताः / राजपुत्रेण कुन्ताप्राद् गुडेन सहिता मुदा // दीयते चेत्तदा कार्य पारणं मयका ध्रुवम् / मासत्रये गते पूर्णोऽभिग्रहस्तस्य तत्र तु // सिंधलक्ष्मीपतेर्भर्त्यः कमलो गजशुण्डया / दास्यते मोदकान् पञ्च यदि मह्यं नृपाध्वनि // तदा मेऽभिग्रहः पूर्णीभविष्यत्यन्यथा नहि / स एवाभिग्रहं पञ्च मासैरपूरि तस्य तु // ब्राह्मणप्रेयसी राजमार्गे यान्ती स्वमस्तकात् / उत्तार्य शुण्डकं मध्या-हनि द्वादश मण्डकान् / / सघृतान् दास्यते चेद्धि पूर्पो मेऽभिग्रहस्तदा / स एवाभिग्रहः पूर्णो मासत्रयदिनाष्टके / मण्डकान् माषसंयुक्तान् सप्त खण्डघृतान्वितान् / मवमीवासरे राजपुत्री दास्यति चेन्मम / / तदा मया विधातव्यं पारणं नान्यथा पुनः / स एवाभिग्रहोऽपूरि पञ्च मासदिनत्रये // श्वेतखण्डकृष्णकेसरना किई त्राटइ पुच्छडि बाडंउ चंड सिंगेकरी गुल भेलओ देइ तो खमरिसि पारणउ करेइ / / 1 // नवप्रसूत वाघिणि विकरालि नयर बाहिरि बीहावइ बाल / वडां वीसइ जइ प्रणमी देई तओ खमरिसि पारणं करेइ / / 2 / / देवतयाऽभिग्रहोऽपूरि तस्य, / काली कम्बलि कानउं संड नाकिइं सरडउं / पूंछडी छंड सोग करेइ गुलभेलउ देइ तो खमरिसि पारणं करेइ // 3 // " इत्यादि भूरिशस्तस्यामिग्रहाः पूरितास्तदा / पुण्यप्रभावतः किं किं न जायेत शरीरिणाम् // शिवाद्रिध्यानतः सिंह आगच्छन् सम्मुखं किल / अभूज् जम्बूकवत् शान्त-चेतास्तस्य मुनीशितुः // 28 / / इति हरिविषये क्षमर्षिकथा / ... भूमण्डने पुरे चन्द्र-वीरसूरामराभिधोः / चत्वारः सुहृदो मैत्री-जुषोऽवसन् वराशयाः // चत्वारोऽपि गुरूपान्ते पठन्तः शास्त्रसञ्चयम् / बभूवुः कोविदा बाढं दयावासितमानसाः // लक्ष्म्यर्थमन्यदा सर्वे सुहृदः स्वीयपत्तनात् / निर्गता अर्जयन्ति स्म लक्ष्मीः काश्चित् स्वकर्मतः // यतः-“जाई रूवं विज्जा तिन्नि वि निवडंतु कंदरे विवरे / अत्युच्चिय परिवड्ढउ जेण गुणा पायडा हुंति // 1 // " तेषु गच्छत्सु मार्गेषु स्कन्धस्थछगलः पुनः / आगच्छन् ब्राह्मणोऽकस्मात् सम्मुखो मिलितो ध्रुवम् // ज्ञातं तैः छगलो ह्येष यागाय नीयतेऽधुना / ब्राह्मणेन कथं रक्ष्योऽस्माभिः सुकृतहेतवे / एको रूपं परावृत्याभ्येत्य सम्मुख ऊचिवान् / भो विप्र ! त्वं कथं स्कन्धे श्वानं वहसि साम्प्रतम् / / घटीद्वयादनु प्राह द्वितीयः सम्मुखागतः / मृगः किं क्रियते स्कन्धे भो विप्र ! साम्प्रतं त्वया // घटीद्वयादनु प्राह तृतीयः सन्मुखागतः / श्वानः किं क्रियते स्कन्धे विप्रेदानीं त्वया खलु // [ सर्वदेहिनाम् ] घटीद्वयादनुप्राह चतुर्थः सम्मुखागतः / वृकः किं क्रियते स्कन्धे विप्रेदानीं त्वया खलु // अथ दध्यौ द्विजः किं मे राक्षसोऽयं दुराशयः / यजमानेन दत्तोऽस्ति हनिष्यति स मा द्रुतम् / / विमृश्येति निमील्येऽक्षि-द्वयीं बिभ्यन् द्विजस्तदा / स्कन्धादुत्तार्य चिक्षेप दूरं जीवितहेतवे // विमोच्य वाडवात् छागं चत्वारः सुहृदस्तदा / अग्रतश्चलिता द्रव्यो-पार्जनाय मुदा तदा // ततः-बहुबुद्धिसमायुक्ताः सुविज्ञातबलोत्कटाः / शक्ता वश्चयितुं धूर्ता ब्राह्मणादिव छागकम् ॥गच्छतामग्रतस्तेषा-मेको मत्तो मतङ्गजः। सम्मुखो मिलितोऽकस्मोत् हन्तुकामोsभवद्यदा / / तदा ते सुहृदः सर्वे तीर्थं शत्रुञ्जयाभिधम् / हृदि कृत्वा दृढं तस्थु-स्तत्रैव गिरिशृङ्गवत् / / अशक्तः कुञ्जरो हन्तुं तान् दृष्ट्वाऽपि व्यचिन्तयत् / किमेते मयका दृशः पूर्वं मर्त्याः समे ध्रुवम् / / चिन्तयनिति