________________ 16 000000.00 सिद्धराजोपरि चन्द्रचूडादिभूपकथा भूपे स्नात्रं वितन्वाने जिनस्य तौ सुरौ तदा / अपूर्व चक्रतुर्नाट्य नमन्तौ श्रीजिनाधिपम् // 25 // मुकुन्दो भूपतिः पूजां ध्वजान्तां विधिपूर्वकम् / कृत्वा केवलिनः पार्श्व धर्म श्रोतु समीयिवान् // 26 / / तदोचतुः सुरौ द्वौ तु क्वाऽऽत्रां मुक्तिर्भविष्यति ? / केवल्याहाऽत्र सिद्धाद्रौ गमिष्यतो युवां शिवम् / / 27 / / ततस्तौ प्रोचतुर्देवो सिद्धपर्वत एव तु / श्रावयोमुक्तिगमनाद् गीयताममरैरपि // 28 // तौ देवौ पर्वते तत्र सेवित्वाऽर्हत्क्रमाम्बुजम् / नत्वा च ज्ञानिनं स्वर्ग जग्मतुमुदिताशयौ / // 26 // ततश्च्युत्वा सुरौ तौ तु प्राप्य मयंभवं क्रमात् / लात्वा दीक्षां गतौ सिद्धि सिद्धपर्वतमस्तके // 30 // * इति सिद्धपर्वतोपरि निर्जरकथा * . // अथ सिद्धराजोपरि चन्द्रचूडादिभूपकथा / / यात्रां कृत्वा नृपश्चन्द्र-वूडोधर्मपरायणः / सिद्धाद्रः सिद्धराजेति नाम चक्रे सदुत्सवम् // 1 // कलाकेलिपुरे लक्ष्मी-धरस्य मेदिनीपतेः / लदमीवत्यभिधा पत्नी बभूवानघशीलभाग्॥२॥ बहूपयाचितः पत्रोऽजनिष्ट शुभवासरे / तस्य राज्ञोऽभवत प्राणादपि वल्लभ एव सः // 3 // जन्मोत्सवं नृपः कृत्वा भूयिष्ठविभवव्ययात् / चन्द्रचूडेति नामाऽदात् सूनोः सजनसाक्षिकम् // 4 // धर्मकर्मकला या या विद्यन्ते विबुधान्तिके / तास्ताः सर्वाः कुमारेण शिक्षिता लीलया किल // 5 // . कुमारः केनचियोम-गामिना पूर्ववैरिणा / अपहृत्य महारण्ये मुमुचे दुःखहेतवे // 6 // जलाभावात्तपा लग्ना यावत्प्राणापहारिका / तावत् स केनचिद् व्योम-गतिनोत्पाटय यत्नतः // 7 // मुक्तो जलाशये पातु पानीय राजनन्दनः / यतः पण्यवतां पुण्यं जागर्ति विपदि ध्रुवम् / / 8 / / युग्मम् / यावत् पिपति पानीयं कुमारो माररूपभृत् / तावदुत्पाग्य तं व्योम्नि हन्तु विद्याधरोऽचलत् / / 6 / / श्रास्फाल पति कीराद्रि-प्रस्थे तं यावता खगः / तावदेको बली व्योम-गामी तत्राऽऽगतो जगौ // 10 // दुष्ट ! पापिष्ठ ! विद्याभृत् ! किमेनं नरपङ्गवम् / हसि ? विभेषि ना पापात मत्तोवाकिल साम्प्रतम् // 11 // उक्त्वेति व्योमगो व्योम-गमरिं तं दुराशयम् / हत्वा पृष्ठौ दृढं कुब्जं व्यधान्मुष्टिप्रहारतः // 12 // खगो भग्नकटिः सोऽपि रुदन् क्रन्दन बहुस्वरम् / रोदयामास पार्श्वस्थान् मृगफेरुहरूनपि // 13 // तदा खगो जगी व्योम-गामिन् ! किं स्यते त्वया / खगोऽवग मम देहेऽस्ति वेदना प्राणहारिका // 14 // व्योमगामिन् ! त्वया भमी-पतिपत्रापहारतः / यत्पापं विहितं तस्य वीजमात्रमिदं फलम् / / 15 / / परलोकफलं श्वभ्र-पातरूपं भविष्यति / तत्र या विद्यते पीडा तस्या (सा हि) वक्तु न शक्यते // 16 // स दुष्टव्योमगोऽप्रादीत् मया पायं कृतं बहु / अतः परं कुमारस्यो-परि दुष्टं न चिन्त्यते // 17 // ततोऽन्यो व्योमगो विद्या-प्रभाषात् तस्य विग्रहात् / अपाचक्रेऽचिराद् दूरं वेदना दुःखदायिनी // 18 // ततो द्वाभ्यां खगामिभ्यां मिथो मैत्री प्रपद्य च / ददिरे तस्य सद्विद्या व्योमगाद्या मनोहराः // 16 // इतोऽप्रेक्ष्य सुतं भपो दुःख्यरण्ये जनेऽभितः / न्यवर्त्तयत् पुरीमध्ये गीतगानादि सर्वतः // 20 //