________________ कृष्णचरिते नेमिनाथ-शाम्ब-प्रद्युम्नादि सम्बधस्वरूपम् 227 00000000000000 आयुःप्रान्ते ततश्च्युत्वा लब्ध्वोत्तरोत्तरान् भवान् / वर दत्ताभिधो गच्छा-धीशोऽयं मेऽभवद्धरे ! // 708|| यस्मान् मूर्तिस्तदा ब्रह्म-नाथेन पूजिता मम / तत्फलात् प्राप्य गच्छेश-पदं मुक्तिं गमिष्यति // 706 / / उक्त'च-श्रीब्रह्म न्द्रकृतेयं श्रीनेमेमूर्तिरमरगणपूज्या / विंशतिसागरकोटी स जयति गिरिनारगिरिराजः / / 2 // " नेमिनाथान्तिके दीक्षां लात्वा राजीमती सती / ययौ मुक्ति प्रभोराक पुण्यपापक्षयाल्लघु // 710 / नेमिपाश्र्वे व्रतं लात्वा यादवा बहवः क्रमात् / कृष्णस्य पुत्रपुत्र्यश्च पत्न्यश्च नितिं ययुः // 711 // महानेमिरयनेमी तथाऽन्येऽपि यदृत्तमाः / श्रीनेमिसन्निधौ दीक्षां लात्वा मुक्तिं ययुः क्रमात् / 712 / / यादवो मेघनादाह श्चलन रैवतके गिरौ / यत्र सिद्धोऽभवत्तत्र तद्विम्बं समसंश्रितम् // 713 / / यत्रस्थेन भगवता नेमिनाऽऽलोकितो गिरिः / अवलोकननामाऽभूत् शृङ्ग तन्नेमिबिम्बयुग // 714 / / उक्तञ्च–'पुण्डरीकगिरेः शृङ्गमेतन्मुख़्यं हि काञ्चनम् / मन्दारकल्पवृक्षायेगहतं तरुभिवरम् / / 1 / / " सम्पातिनिझरै धाँत-पातकं प्राणिनां सदा / स्पर्शतोऽपि महातीर्थ मेतत्पापं व्यपोहति // 715 / / पुण्योऽयं पर्वतो वर्यः पृथिव्यास्तिलकोपमः / श्रीसर्वज्ञ क्रमैः पूतो भाति त्रैलोक्यभूपणम् / / 716 / / उत्तमः सर्वतीर्थानां सर्वतीर्थ फलप्रदः / दर्शनस्पर्शनेनापि दुरितं हन्ति सर्वतः / / 717 / न्यायोपात्तं धनं पौत्र कुर्वते पात्रमङ्गिनाम् / तेषां समृद्धयः सर्वा सम्पद्यन्ते भवे भवे // 718 / अम्बिका निर्जरी यत्र स्थिता पाति च यात्रिकान् / अम्बिकाख्यमभूच्छृङ्ग तदम्बाविम्बसमयुम् / / 716 / छत्रं यत्राऽमुचत्कृष्ण-स्तीर्थ नन्तु समागतः / स्थानस्य तस्य तु छत्र-शिलेत्याह्वाऽभवत्तदा / / 720 // सहस्रविन्दुर्वीशः सहस्रभूपसंयुतः / प्रात्तदीक्षोऽगमन्मुक्तिं यत्र स्थाने तमःक्षयात् / / 721 / / सहस्रबिन्दुनामाऽभू त्तस्य स्थानस्य लोकतः / तीर्थं तदपि कल्याण-कमलादायि विद्यते // 722 // सहस्राम्रक्ने नेमि-जिनस्य प्रवरं गृहम् / कारयामास लक्ष्मीशो भूयिष्ठव मलाव्ययात् / / 723 / / लक्षाम्रकानने नेमि-नाथस्य सदनं महत् / नेमिविम्बयुतं कृष्णः कारयामास रैव्ययात् / / 724 // कृष्णः सङ्घ बहुं नीत्वा सिद्धाद्रय जयन्तयोः किल / यात्रां कुर्वन् वहूनां तु बोधिबीजं व्यधात्तमाम् / / 725 // यत्र राजीमती साधी रथनेमियतीश्वरम् / यातमुन्मार्गमाने पीत् सन्मार्ग वरया गिरा // 726 / / तस्य स्थानस्य लोकेन ग्थनेमिगुहाऽभिधाम् / ददेऽतो विद्यते तीर्थ तदेव शिवशर्मदम् / 727|| मेघे वर्षति एकस्यां गुहायां रयनंभि-राजीमत्योः समागमनं जातं, राजीमतीरूपं दृष्ट्वा रथनेमिस्तां भोगाय याचते स्म, तयाऽतः स प्रबोधित इत्यादिसम्बन्धः स्वयमेव विस्तराद् ज्ञेयः / / "अहं च भोगरायस्स तं च सि अंधगवह्निणो / मा कुले गंधणा होमो संजमं निहुरो चर / 1 / " अन्यदा प्राभृते ताय-युग्मे समागते सति / शाम्यश्च पालकः पुत्रौ याचेते युगपत् स्फुटम् / / 728|| तदाऽऽचष्ट हरिः शाम्ब-पालकाङ्गजयोः पुरः / कल्ये यः प्रथमं नोति नेमि तस्मै ददाम्यहम् / 726 / यामिनीपश्चिमे यामे उत्यायोच्चैःस्वरं गदन् / गत्वा पुर्या बहिनेमि पालकः प्राणमन्मुदा / 730 / / स्वस्थानकस्थितः शाम्बः कृत्वोत्तरयिकं वरम् / रजनीपश्चिमे यामे नेमि भक्याऽनमत्तमम् / / 731 // प्रातः कृष्णः प्रतुं नत्वा जगौ पालकशाम्बयोः / मध्ये केन भवान् भक्त्याऽन्दि प्राह ततः प्रभुः // 732 / /