________________ शत्रुञ्जय-कल्पवृत्ती 00000000000 कृष्णेन्द्रादिषु यातेषु स्वस्वस्थाने नृपादिषु / वरदत्तद्विजावासे गोष्ठस्थेऽह्निद्वितीय के // 628 / / पारणं परमान्नेन यावत् प्रभुळधात्तमाम् / तावत्तत्र गृहे रत्न-वृष्टिं चक्र : सुधाभुजः ॥६२६।।युग्मम्॥ यत-'अद्ध य तेरस कोडी उक्कोसा तत्थ होइ वसुहारा / अद्ध य तेरस लक्खा जहन्निया होइ वसुहारा // 1 // विहारं कुर्वतोऽहस्सु चतुःपञ्चाशति व्रतान् / गतेपु केवलज्ञानं सहस्राम्रवनेऽजनि / 630 // सद्यः सुरवररेत्य तत्र वप्रत्रये कृते / उपविष्टो जिनो नेमि-तुधर्मोपदेशनाम् // 631 // इत उद्यानपस्याऽऽस्याद् ज्ञानोत्पति प्रभोस्तदा / मत्वा हृष्टो ददौ दानं मुरारातियेथोचितम् // 632 / कृष्णः समुद्रविजय-शिवाभामादिसंयुतः / गत्वा तत्र प्रभोस्तिस्रः प्रदक्षिणा व्यधाद् द्रुतम् // 633 // बलिं कृत्वा प्रभु नत्वा स्थाने यथोचिते हरो / उपविष्ट परे स्वस्वो-चिते स्थाने न्यवीविशत् / / 634 // "राया व रायमच्चो तस्सासइ पउर जणवत्रो वावि / दुब्बलिकडिय बलि छडीय तंदुलाणाढगं कलमा // 1 // भाइअपुणाणियाणं अखंडफुडियाण फलगसरियाणं / कीरइ बली सुरावि अ तत्थेव च्छुहं ति गंधाइ // 2 // बलिपविसणसमकालं पुव्वदारेण ठाई परिकहणा / तिगुणं पुरो पाडण तस्सद्ध अवडियं देवा // 3 // अद्बद्धं अहिवइणो तदद्धमो होइ पागयजणरस / सव्वामयप्पसमणी कुप्पइ नऽन्नो अ छम्सासे ||4||" इतः पुरे कुवेराह कोटिनार्यमिधे पुरे / देवमद्विजन्माभू-देवलाऽजनि गेहिनी // 635 / / क्रमात् तयो भूत् सोम-भट्टः पुत्रो मनोहरः / सोमभट्टस्य पत्न्यासी-दम्बिका जिनधर्मकृत् // 636 / / क्रमादिवं गते देव-भट्ट निकेतनप्रभुः / सोमभट्टो व्यधात् पितृ-कृत्यं सद्गतये तदा / 637 / / तदैव श्राद्धदिवसे मासक्षपणपारणे / भिक्षाय संयतं द्वन्द्व सोमभट्टालये ययौ / / 638 // साधू तो शमिनी वीक्ष्य दध्यापित्यम्बिका हृदि / ममाऽद्य सदनं जातं पवित्रं संयतागमात् / / 633 / श्वथ रेव गृहे नास्ति शुद्धमन्नं गृहे पुनः / प्रतिलाभ्य यती चेमो कृतार्थाऽद्य भवाम्यहम् // 640 // ध्यात्वेति हर्षिताऽऽदाय शुद्धमन्नं करे निजे / अम्बिकाऽवग् यतीनां तु चान्नं प्रासुकमुत्तमम् / / 6 / 1 / / शुद्धमन्नं तदा ज्ञात्वा धनः पात्रं यती वरौ / तदाऽम्बिका मुदा साध्वो स्तयोरन्नं ददौ द्र तम् / / 642 / हव्यकव्यमकृत्वा तां ददानां दानमम्बिकाम् / दृष्ट्वा प्रातिगृहिण्येका तस्यामीयां व्यधात्तमाम् / !643 // तस्याः श्वश्र र्यदाऽऽयाता तदाऽवक प्रातिगेहिनी / अकृत्वा हव्यकव्यादि भवत्याः सूनुगेहिनी // 644 // अनादृत्य भवन्तीं तु साधुभ्यामन्नमादरात् / अदिताथ न तेनैव रुचिरा विद्यते ननु // 645 / / तदाऽम्बिका भिया कम्प-माना श्वश्र समीपतः / कृष्णपक्षेन्दुवत् काश्यं बभारानघमानसा // 646 / / इतः सोमो द्विजान् प्रेत-कृत्यायाऽऽनीतवान् गृहे / पत्नीकृत्यं निशम्याथ तर्जयामास तां प्रियाम् / / 647 // अम्बिका तर्जिता पत्या श्वश्रा च दनचेतसा / लात्वा शुभंकरं विभु-करं सूनुद्वयं तदा // 648|| तौ मुनी मानसेऽत्यन्तं स्मरन्ती नेमिनं जिनम् / चचाल रैवतक्षोणी-धरस्य दिशि वेगतः ॥६४६॥युग्मम्।। मार्गे यान्त्यम्बिका खिन्ना बुभुक्षापिडितौ सुतौ / दर्श दर्श रुरोदेति जल्पन्ती दैवतं प्रति // 650|| रे देव ! किं मया चक्रे-ऽपराधस्तेऽधुना किल / येनेदृक्षामहं नीताऽवस्थां पुत्रयुता त्वया // 651 / / साधुभ्यां शुद्धमाहारो मया मुक्तिप्रदो ददे / पापं न विहितं किञ्चित् किन्तु धर्मः कृतः किल / / 652 / / एवं कृते मया पुण्ये साधुदानेन ते किल / यत्ते समे न चित्ते तत् कुरु त्वमपि साम्प्रतम् / / 653 / /