________________ * णमोत्थु णं समणस्स भगवओ महावीरस्स * // पू० अागमोद्धारक-प्राचार्य-श्रीआनन्दसागरसूरीश्वरेभ्यो नमः // तपागणाधीश-श्रीधर्मघोषसूरिवररचितः * शत्रुञ्जय-कल्प: * श्रीशुभशीलगणिविहितवृत्तियुतः / यस्यादेशादुपेत्य प्रथमगणधरः पुण्डरीकाभिधानः, सिद्धाद्रौ पञ्चकोटीमितयतिसहितः केवलज्ञानमाप्य / श्रेयःपुर्यामयासीदमरनरपतिश्रेणिसंसेविताघ्रिः, स श्रीमानादिदेवः शिवसुखमचिरात् प्राणभाजा प्रदेयात् // 1 // यत्र तीर्थेऽखिलं कर्म-राशि क्षिप्त्वा चिरार्जितम् / असङ्ख्या यतयो जग्मु-र्यास्यन्ति च शिवश्रियम् // 2 // तस्मिँस्तीर्थे जिनाधीशान् वृषभादीन् सुरार्चितान् / नृणां पूजयतां ध्यानं कुर्वतां शिवशं भवेत् // 3 // यतः शत्रुञ्जये दृष्टे दुर्गतिद्वितयं क्षिपेत् / सागराणां सहस्रच पूजास्नात्रविधानतः // 4 // पल्योपमसहस्र तु ध्यानाल्लक्षमभिग्रहात् / दुष्कर्म क्षीयते मार्गे सागरोपमसञ्चितम् // 5 // सिद्धाद्रौ पक्षिणः सन्ति क्षुद्रा अन्येऽपि येऽङ्गिनः / हिंसका अपि सेत्स्यन्ति ते भवैस्त्रिभिरुत्तमाः // 6 // तावद् गर्जन्ति हत्यादि-पातकानीह सर्वतः / यावच्छत्रुञ्जयेत्याख्या श्रयते न गुरोमुखात् // 7 // शास्त्रान्तरेऽप्युक्तं-अष्टपष्टिषु नीर्थेषु यात्रया यत्फलं भवेद् / आदिनाथस्य देवस्य स्मरणेनापि तद्भवेत् / / 8 / / इत्यादि भूरिशो यस्य माहात्म्यं श्रयते जने / तस्य तीर्थस्य वण्र्येत तत्कथं मन्दबुद्धिभिः / / 9 / / सुधर्मस्वामिना यस्य माहात्म्यं ग्रन्थकोटिभिः / वर्णितं तच्च सक्षिप्तं भद्रबाहुगुरूत्तमैः // 10 // तञ्च वर्षिणा भव्योपकाराय लघूकृतम् / ततः श्रीपादलिप्तेन सूरिणापि हितेच्छुना // 11 // ततो धनेश्वरसूरी-श्वरः सक्षिप्तवाँस्तदा / ततोऽन्येऽपि गुरूत्तंसाः सञ्चिक्षिपुश्च तत्पुनः // 12 // ततस्तपागणाधीशो धर्मघोषगुरूत्तमः / श्रीशत्रुञ्जयकल्पं तु चकारामु तमोऽपहम् // 13 // तयोर्जाते मृतेऽकस्मात्त्रयोदशदिनान्तरे / धर्मकीर्तिरूपाध्यायोऽजनि तस्मिन् गणे तदा // 14 // क्रमात्तस्य पदे सूरे॥ते सति शुभोदये / धर्मघोषगुरुरिति नामाऽजनि जनेऽभितः॥१॥ तेनैव धर्मघोषण मूरिणा विदधेतराम् / श्रीशत्रुञ्जयकल्पोऽयं भव्याऽङ्गियोधहेतवे // 16 // .. तच्चेदं स्तवनं तथाहि-'सुयधम्मकित्तिग्रं तं तित्थं' / धर्मघोपगुरूत्तं स-कृतस्यास्य स्तवस्य तु / वृत्तिविधीयते तत्तत्कथायुक्ता मया किल // 17 // तथाहि-सोमसुन्दरहरीशस्तपागच्छवियद्रवेः / पट्टालङ्करणो जातो मुनिसुन्दरसूरिराट् // 18 // तस्य पट्टोदयादि तु भामयन्त्यधुना ध्रु वम् / रत्नशेखरसूरीशस्सूर्याः प्रतापिनः पुनः // 16 // मुनिसुन्दरसूरीश-शिष्येण मुग्धबुद्धिना / शुभशीलाभिधेनैव भव्याङ्गियोधहेतवे // 20 // धर्मघोपगुरूत्तंस-कृतस्यास्य स्तवस्य तु / वृत्तिस्तत्तत्कथायुक्ता क्रियते साम्प्रतं किल ॥२१॥॥युग्मम्।। तस्य स्तोत्रस्य प्रथमगाथायाः सम्बन्ध आदी प्रोच्यते / तथाहि