________________ शत्रुञ्जय-कल्पवृत्तो ..000000 त्वं तु धर्मान्मनाग नैव चलितो मेदिनीपते ! / प्रादुःकरोम्यहं मुख्यं गिरिं वन्दस्व बोधिदम् // 6 // ततो शेषेषु शैलेषु संहतेष्वसुरारिणा / शत्रुञ्जयं समारूढो वीर्यसारो महीपतिः // 10 // स्नात्र-पूजा-ध्वजादानैमुख्यैः कृत्यैर्महीपतिः / स्वजन्म सफली कृत्वा ययौ राजादनीतले // 11 // तत्र राजादनी लाजै-वर्द्धयित्वा प्रभुक्रमौ / पूजयामास भूपालो भूमिसङ्घजनान्वितः // 12 // तदा सुधर्मदेवेशः पतितान् श्रीजिनालयान् / उघ्र दिव्यशक्त्या च वीर्यसारो नृपोऽपि च // 13 // एवं शत्रुञ्जये यात्रां कृत्वा विस्तरतो नृपः / समेत्य स्वपुरे धम्म कुरुते स्म दिवानिशम् // 14 // क्रमाद्वीर्यनृपो राज्ये न्यस्य पुत्रं निजं मुदा / लात्वा दीक्षां तपस्तीत्र कुरुते स्म निरन्तरम् // 15 // वीर्यसारो नृपः कोटि-मितैः साधुभिरन्वितः / शत्रुञ्जये ययौ कर्म-क्षयाय मासि फाल्गुने // 16 // तत्र तीव्र तपः कृत्वा क्षिप्त्वा शेषतमश्चयम् / सम्प्राप्य केवलज्ञानं साधुभिस्तैयु तो नृपः // 17 // प्रबोध्य भविनो भूरीन् वीर्यसारो मुनीश्वरः / कोटिसाधुयुतो मुक्तिं ययौ निजायुषः क्षये // 18 // इति प्रथमनाकीन-वीर्यसारनृपोद्धारसम्बन्धः // एवं तृतीय-चतुर्थ-पंचमस्वर्गस्वामिनासुद्धारा अत्र शत्रुञ्जये ज्ञेयाः / एवं चमरेन्द्रादिभिरिन्द्रः उद्धाराः कृता उक्तश्चकोटिलक्षार्णवे जाते ब्रह्मन्द्रोद्धारतो गते / भवनेन्द्रसमुद्धारो बभूव विमलाचले // अन्तरा अन्तराप्येवं तीर्थे शत्रुञ्जयाभिधे / पुण्योद्धारा इवोद्धारा बभूवुन सुरः कृताः॥१॥ भरतक्षोणिनाथस्योद्धाराल्लक्षमिताः क्रमात् / उद्धारा येऽभवस्तेषां सङ्ख्यां कत्तु क्षमोऽस्ति कः ? // 2 // भरतप्रमुखा भूपाः सङ्ख्यातीता सुभावतः / सङ्घशीभूय सिद्धाद्रौ यात्रां विस्तरतो व्यधुः // 3 // यैरन्यैरपि भूदेव-महेभयादिभिरादरात् / यात्रां शत्रुञ्जये चक्र सङ्ख्या तेषां न जायते // 4 // * इति कियतां सङ्कशानां सम्बन्ध उक्तः★ // अथ सगरचक्रिसम्बन्ध उच्यते // जम्बूद्वीपेऽस्ति भरते या चायोध्याऽरिभिः सदा / सा चायोध्येति विख्याता गतातङ्का रमाश्रिता // 1 // आगता रिपवो यत्र मणिशालिषु बिम्बितान् / स्वदेहानेव संवीक्ष्य नेशुर्वे रिभयाद् द्रुतम् // 2 // अहेच त्येषु घण्टानां यत्र नादैरहनिशम् / धर्मभूपवपु(वदत्तूर्ये-रिव पापनृपोऽनशत् // 3 // मुक्तिं शिवं च भूपाला असङ्ख्याता समागमन् / श्रीमया तेष्वसङ्ख्यषु चैकः सर्वार्थसिद्धिगः // 4 // ................. / श्रीमदाद्यविभोवंशे द्वैतीयीयजिनावधि // 5 // तस्यां पुर्यां जिताऽराते-र्जितशत्रोर्महीपतेः / राज्यभूद्विजया नाम्नी शीलादिगुणशालिनी // 6 // जितशत्रोरभूद् भ्राताऽनुजः सुमित्रनामभृत् / युवराजपदं सोऽपि पपाल न्योयतत्परः / / 7 /