________________ 112 शत्रुञ्जय-कल्पवृत्ती .00000000000000000000000000 अष्टम्यां पाक्षिके पक्षि-मृगसिंहादिशावकाः / अप्याहारं न गृह्णन्ति कथं गृहणाम्यहं प्रिये ! // 49 // युगादीशेन यत्पूर्व प्रोक्त कल्याणहेतुकम् / अहं कण्ठगतप्राण-स्तत्त्यजामि न कर्हिचित् / / 5 / / श्रुत्वेति उर्वशी प्राह चतुर्दश्यष्टमीदिने / रतसौख्यं न मेऽदास्यः तदाहं च मृता ध्रुवम् // 51 // नृपः सूर्ययशाः प्राह पूर्वां त्यक्त्वाऽर्यमा यदि / उदेति पश्चिमायां तु तदा धर्माच्चलामि न // 52 / / यतः- “वरं प्रयातु मे राज्यं वरं प्राणक्षयोऽत्र हि / न पुनः पर्वतपसो भ्रष्टो लोके भवाम्यहम् // 1 // " प्राहोर्वश्यधुना प्राप्तं वयो भोगसुखं विना / गमिष्यत्यावयोः काक-नाशं जीवितमप्यहो ? // 53 // एवं प्रोक्त्वा तदा ताभ्यां निश्चेष्टकाष्टवत् स्थितम् / तथापि तपसो भ्रटो न भूमीशो मनागपि // 54 // क्षणानिःश्वस्य ताभ्यां वा स्थितं प्रोक्तमिति ध्र वम् / निष्ठुरोऽसि कृपारिक्तो विद्यते त्वं नरेश्वर ! // 55 // श्रावयोर्हत्यया श्वभ्र-पातस्तव भविष्यति / तेनाऽऽवयोर्ददस्व त्वं सद्यो भोगसुखं खलु ॥५६॥युग्मम्।। निषिद्धोऽपि नृपस्ताभ्यां प्रातरादाय पौषधम् / यदा तस्थौ तदा ताभ्यां विदारितं वपुर्निजम् / / 57 // एतयोश्चेष्टितमाकर्ण्य नाचलन्नृपतिर्यदा / तदा ताभ्यां महासेना समानीता पुराताहिः / / 58|. . लुण्ट्यमाने पुरे च स्व-भृत्यैः प्रोक्त नृपो जगौ / लुण्टिष्यते न मे पुण्यं वैरिभिः प्रबलरपि // 59 / / यतः- "बाह्या श्रीव रिभिर्बाह्य हियते नान्तरा पुनः / न चान्तरं वृष द्विभिर्बाह्य वा हन्यते क्वचित् // 1 // ' ततो द्विषो यमाकाराः पार्वेऽभ्येत्य महीपतेः / हन्तु लग्ना यदा नैव तदापि क्षुब्धवान् नृपः // 60 // महायशोमुखा पुत्राः पुत्र्यो बद्धवा दृढं तदा / आनीता भूपतेरग्रे हन्तु तेवैरिभिद्र तम् // 61 / हन्यमानान् सुतान् पुत्री-द्धिभिर्वीक्ष्य महीपतिः / धर्मध्यानान्मनाग नैव चचालाचलमानसः // 62 // ततस्ते मानुषर्षी रूपां त्यक्त्वा कृत्वा निजाकृतिम् / देवाङ्गने लसद्र प-धरे प्रोचतुरादगत् // 63 // जय त्वं वृषभस्वामि-कुलसागरचन्द्रमाः / जय सत्चवतां धुर्य ! जय चक्रीशनन्दन ! // 64 / / स्वर्गे संसदि शक्रेण सत्त्ववान् गदितोऽथवा / आवाभ्यां तु तथा ज्ञातो भवान् धर्मणि निश्चलः / 65 / / रुध्यतेऽब्धि मरुच्छैनः चाल्यते बध्यते मरुत् / यदि पुसा तदा धर्म-ध्यानाचं चाल्यते न हि // 66 / / स्तुवत्योस्तं तयोरेवं शक्रोऽभ्येत्य मणीमयीम् / वृष्टि कृत्वा प्रशंस्येति जय त्वं भूपते ! चिरम् / / 67 // मुकुटं कुण्डलाहार-मङ्गदं वरमुद्रिकाम् / तस्मै दत्त्वा प्रणम्याङ्ग्री भक्त्या स्वर्गालये ययौ // 68|| कुरु धर्म चिरं जैनं चिरं पालय भूतलम् / उपकारं चिरं कुर्याः यशःसञ्चयमञ्जुलम् // 69 / / ताभ्यां प्रशंस्य भूपालं क्षमयित्वा मणोन बहून् / वितीर्य नर्त्तनं कृत्वा गतं गीवीण सद्मनि // 7 // चतुर्दश्यष्टमीपर्व-मुख्येष्वहःसु सन्ततम् / तपः कुर्वन् नृपो नैव चाल्यते सुरदानवः / 71 // ज्ञानदर्शनचारित्र-धारिणः श्रावकोत्तमाः / स्थापिताश्चक्रिणा येन ये ये भोजनदानतः // 72 // तेभ्यः पृथक पृथक स्वर्णोपवीतं रुचिराकृतिम् / वितीर्य ददते भूपः स्वन्नं स्वीय निकेतने // 73 / / सिद्धाद्रौ विस्तराद् यात्रां कृत्वा सूर्ययशा नृपः / उद्धारं चकृवान् श्रीमयुगादिजिनसद्मनः // 74 // आदर्श स्वं मुखं पश्यन् नृपः सूर्ययशा नृपः / भरतेश इव प्राप ज्ञानं केवलसंज्ञकम् / / 75 // लिङ्ग प्राप्येन्द्रतः सूर्य-यशाः सुविहरन् क्षितौ / बोधयामास भूयिष्ठ-भव्यान् सर्वज्ञधर्मणि // 76 // क्रमाच्छत्रुञ्जये शैले गत्वा सूर्ययशा मुनिः / सर्वकर्मक्षयान्मुक्तिसातमापायुपः क्षये // 77 //