________________ 268 - मल्यगिरिमहर्षिविनिर्मितविवृत्युपेत [ गाथाः ___ अत्र सप्ततिकाख्ये प्रकरणे 'यत्र' बन्धे उदये सत्तायां वा योऽर्थः 'अपरिपूर्णः खण्डः 'अल्पागमेन' अल्पश्रुतेन मया 'बद्धः' निबद्धः, इतिशब्दः समाप्तिवचनः, स च गाथापर्यन्ते वेदितव्यः / 'तम्' अपरिपूर्णमर्थ तत्र बन्धादौ ममाऽपरिपूर्णार्थाभिधानलक्षणमपराधं क्षमित्वा 'बहुश्रुताः' इष्टिवादज्ञाः 'पूरयित्वा' तत्तदर्थप्रतिपादिकां गाथां प्रक्षिप्य शिष्यजनेभ्यः ‘परिकथयन्तु सामस्त्येन प्रतिपादयन्तु / बहुश्रुता हि परिपूर्णज्ञानसम्भारसम्पत्समन्विततया परोपकारकरणैकरसिकमानसा भवन्ति, ततो मम शिष्याणां च परमुपकारमाधित्सवस्तेऽवश्यं ममास्फुटापरिपूर्णाभिधानलक्षणमपराधं विषध परिपूर्णमर्थ पूरयित्वा शिष्येभ्यः कथयन्तु // 75 // निरुपममनन्तमनघं, शिवपदमधिरूढमपगतकलङ्कम् / दर्शितशिवपुरमार्ग, वीरजिनं नमत परमशिवम् // यस्योपान्तेऽपि सम्प्राप्ते, प्राप्यन्ते सम्पदोऽनघाः / नमस्तस्मै जिनेशश्रीवीरसिद्धान्तसिन्धवे // यैरेषा विषमार्था, सप्ततिका सुस्फुटीकृता सम्यक् / अनुपकृतपरोपकृतथूर्णिकृतस्तान् नमस्कुर्वे // प्रकरणमेतद् विषमं, सप्ततिकाख्यं विवृण्वता कुशलम् / यदवापि मलयगिरिणा, सिद्धि तेनाश्नुतां लोकः // अर्हतो मङ्गलं सिद्धान् मङ्गलं संयतानहम् / अशिश्रियं जिनाख्यातं, धर्म परममङ्गलम् // ग्रन्थाग्रम्-३८८० 1 सं० सं० 2 छा० 'त्र तत्र बन्धा // 2 छा० क्षमयित्वा // 3 सं०१ त० म० 'नसारसं // 4 सं० 1 त०म० कमनसो भ° // 5 सं 2 म्-३७८० //