________________ 264 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः अगंतूणं समुग्घायमणंता केवली जिणा। जरमरणविप्पमुक्का, सिद्धिं वरगइं गया / (पत्र 601-1) अत्र "बंधणेहिं" ति बध्यन्ते इति बन्धनाः-कर्मपरमाणवः, कृत् "बहुलम्" (सिद्धहे० 5-1-3 ) इति वचनात् कर्मण्यनट् प्रत्ययः, तैः शेषं सुगमम् / गत्वा चागत्वा च समुद्धातं भवोपग्राहिकर्मक्षपणाय लेश्यातीतमत्यन्ताप्रकम्पं परमनिर्जराकारणं ध्यानं प्रतिपित्सुर्योगनिरोधायोपक्रमत एव / तत्र पूर्व बादरकाययोगेन बादरमनोयोगं निरुणद्धि, ततो बादरवाग्योगम् , ? ततः सूक्ष्मकाययोगेन बादरकाययोगम्, ततस्तेनैव सूक्ष्मकाययोगेन सूक्ष्ममनोयोगम्, ततः सूक्ष्मवाग्योगम् , ततः सूक्ष्मकाययोगं निरुन्धानः सूक्ष्मक्रिया प्रतिपाति ध्यानमारोहति / तत्सामर्थ्याच्च वदनोदरादिविवरपूरणेन सङ्कुचितदेहत्रिभागवर्तिप्रदेशो भवति / तस्मिंश्च ध्याने वर्तमानः स्थितिघातादिभिरायुर्वर्जानि सर्वाण्यपि भवोपग्राहिकर्माणि तावदपवर्तयति यावत् सयोग्यवस्थाचरमसमयः / तस्मैिश्च चरमसमये सर्वाण्यपि कर्माणि अयोग्यवस्थासमस्थितिकानि जातानि / नवरं येषां कर्मणामयोग्यवस्थायामुदयाभावस्तेषां स्थिति स्वरूपं प्रतीत्य समयोनां विधत्ते, कर्मत्वमात्ररूपतां त्वाश्रित्यायोग्यव- . स्थासमानाम् / तस्मिंश्च सयोग्यवस्थाचरमसमयेऽन्यतरद्वेदनीयमौदारिक-तैजस-कार्मणशरीरसंस्थानषट्क-प्रथमसंहनन-औदारिकाङ्गोपाङ्ग-वर्णादिचतुष्टया- गुरुलघु-उपघात-पराघात-उच्छ्वासशुभा-ऽशुभविहायोगति-प्रत्येक-स्थिरा-ऽस्थिर-शुभा-ऽशुर्भ-सुस्वर-दुःस्वर-निर्माणनामामुदयोदीरणाव्यवच्छेदः / ततोऽनन्तरसमयेऽयोगिकेवली भवति / अयोगिकेवली च भवस्थो-ऽजघन्योत्कर्षमन्तर्मुहूर्त कालं भवति / स च तस्यामवस्थायां वर्तमानो भवोपनाहिकर्मक्षपणाय व्युपरतक्रियमप्रतिपाति ध्यानमारोहति / एवमसावयोगिकेवली स्थितिघातादिरहितो यान्युदयवन्ति कर्माणि तानि स्थितिक्षयेणानुभवन् क्षपयति, यानि पुनरुदयवन्ति तदानीं नं सन्ति तानि वेद्यमानासु प्रकृतिषु स्तिबुकसङ्क्रमेण सत्रमयन् वेद्यमानप्रकृतिरूपतया च वेदयमानस्तावद् याति यावदयोग्यवस्थाद्विचरमसमयः // 64 // देवगइसहगयाओ, दुचरमसमयभवियम्मि खीयंति। . सविवागेयरनामा, नीयागोयं पि तत्थेव // 65 // देवगत्या सह गताः-स्थिताः देवगतिसहगताः, देवगत्या सह एकान्तेन बन्धो यासां ता .. सं० सं० मुद्रि० ततो वाग्यो' // 2 सं० 1 त० छा० म० स्मिंश्चरम // 3 सं०१ त० म० "णि सयो॥ 4 सं० 1 त० म० °चाश्रि° // 5 सं० छा० नामेव स्थितिं करोति / तस्मि / मुद्रि० °नामेव / तस्मि // 6 सं०१ सं०२ त० म० 'रसम्बद्धबन्धन-संघात-संस्था // 7 सं०१त० म० °त-शुभा° // 8 स०१ सं० 2 त० म० °भ-निमो° // 9 से 1 त० म० यः // 64 // तस्मिंश्च एता: प्रकृतयः क्षीयन्ते, तदाह-॥ 10 अस्मत्पार्श्ववर्तिषु समप्रादर्शषु तु-“दुचरमसमयभवियम्मि” इति मूल आहत एव पाठः समस्ति, परं विवृतिकृद्भिः श्रीमद्भिर्मलयगिरिभिः "दुचरमसमयभवसिद्धियम्मि" इत्येतत्पदानुसारेण व्याख्यातमस्ति /