________________ 262 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गामाः तस्याः समयोनावलिकाद्विकर्बद्धमात्रमेव, शेषस्य गुणसङ्क्रमेण लोमे प्रक्षिप्तत्वात् / ततोऽनन्तरसमये लोभस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद् गावदन्तर्मुहूर्तम् / संज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने तस्याः सम्बन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसक्रमेण लोभे सर्व सङ्गमयति / लोभस्य च प्रथमकिट्टिदलिक प्रथमस्थितीकृतं वेद्यमानं वेद्यमानं समयाधिकावलिकामानं शेषं जातम् / ततोऽनन्तरसमये लोभस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च / तां च वेदयमानस्तृतीयकिट्टिदलिकं गृहीत्वा सूक्ष्मकिट्टीः करोति तावद् यावद् द्वितीयकिट्टिदलिकस्य प्रथमस्थितीकृतस्य समयाधिकावलिकामानं शेषः / तस्मिन्नेव च समये संज्वलनलोमस्य बन्धव्यवच्छेदो बादरकषायोदयोदीरणाव्यवच्छेदोऽनिवृत्तिबादरसम्परायगुणस्थानककालव्यवच्छेदश्च युगपद् जायते / ततोऽनन्तरसमये सूक्ष्मकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च / तदानीमसौ सूक्ष्मसम्पराय उच्यते / पूर्वोक्ताश्चावलिकास्तृतीयतृतीयकिट्टिगताः शेषीभूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु स्तिबुकसक्रमेण समयति, प्रथम-द्वितीयकिट्टिगताश्च यथास्वं द्वितीय-तृतीयकिट्यन्तर्गता वेद्यन्ते / सूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीवेदयमानः सूक्ष्मकिट्टिदलिकं समयोनावलिकाद्विकबद्धं च प्रतिसमयं स्थितिघातादिभिस्तावत् क्षपयति यावत् सूक्ष्मसम्परायाद्धायाः सङ्ख्येया भागा गता भवन्ति, एकोऽवशिष्यते। ततस्तस्मिन् सहयभागे संज्वलनलोभं सर्वापवर्तनयाऽपवर्त्य सूक्ष्मसम्परायाद्धासमं करोति / सा च सूक्ष्मसम्परायाद्धा अद्याप्यन्तर्मुहूर्तप्रमाणा / ततः प्रभृति च स्थितिघातादयो निवृत्ताः, शेषकर्मणां तु प्रवर्तन्त एव / तां च लोभस्यापवर्तितां स्थितिमुदय-उदीरणाभ्यां वेदयमानस्तावद् गतो यावत् समयाधिकावलिकामानं शेषः / ततोऽनन्तरसमये उदीरणा स्थिता / तत उदयेनैव केवलेन तां वेदयते यावत् चरमसमयः / तस्मिंश्च चरमसमये ज्ञानावरणपञ्चक-दर्शनावरणचतुष्कयशःकीर्ति-उच्चैर्गोत्रा-ऽन्तरायपञ्चकरूपाणां षोडशकर्मणां बन्धव्यवच्छेदः मोहनीयस्योदयसत्ताव्यवच्छेदश्च // 63 // अमुमेवार्थ सकलय्य सूत्रकृत् प्रतिपादयति पुरिसं कोहे कोहं, माणे माणं च छुहह मायाए। मायं च छुहइ लोहे, लोहं सुहुमं पि तो हणइ // 64 // व्याख्या-'पुरुष' पुरुषवेदं बन्धादौ व्यवच्छिन्ने सति गुणसङ्कमेण 'क्रोधे' संज्वलनक्रोधे "छुहइ" ति सङ्क्रमयति / क्रोधस्यापि च बन्धादौ व्यवच्छिन्ने तं क्रोधं 'माने' संज्वलनमाने समयति / संज्वलनमानस्यापि बन्धादौ व्यवच्छिन्ने तं संज्वलनमानं गुणसङ्कमेण 'मायायां' संज्वलनमायायां प्रक्षिपति / संज्वलनमायाया अपि बन्धादौ व्यवच्छिन्ने तां संज्वलनमायां 'लोमे १सं०१ त० म० °बद्धमेव, शेषस्य लोभे प्रक्षिप्तत्वात् / ततो लोभ // 2 सं०१त. म० 'ख्येयभा० // 3 सं० सं० 2 °ख्येये भा° // 4 सं०१त० म० °न तावद् वेद // 5 सं० १त०म० °हनीयोदयस॥ 6 सं०१सं०२म० त० छुभइ //