________________ 260 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः अन्ये पुनराहुः—षोडश कर्माण्येव पूर्व क्षपयितुमारभते, केवलमपान्तरालेऽष्टौ कषायान् क्षपयति, पश्चात् षोडश कर्माणीति / ततोऽन्तर्मुहूर्तमात्रेण नवानां नोकषायाणां चतुर्णा संज्वलनानामन्तरकरणं करोति / तच्च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुद्वलनविधिना क्षपयितुमारभते / तच्चान्तर्मुहूर्तमात्रेण पल्योपमासङ्ख्येयभागमानं जातम् / ततः प्रभृति वध्यमानासु प्रकृतिषु गुणसङ्कमेण दलिकं प्रक्षिपति। तच्चैवं प्रक्षिप्यमाणमन्तर्मुहूर्तमात्रेण निःशेष क्षीणम् / अधस्तनदलिकं च यदि नपुंसकवेदेन क्षपकश्रेणिमारूढस्ततोऽनुभवतः क्षपयति, अन्यथा त्वावलिकामानं तद् भवति, तच्च वेद्यमानासु प्रकृतिषु स्तिबुकसङ्क्रमेण सक्रमयति / तदेवं क्षपितो नपुंसकवेदः / ततोऽन्तर्मुहूर्तमात्रेण स्त्रीवेदोऽप्यनेनैव क्रमेण क्षप्यते / ततः षड् नोकषायान् युगपत् क्षपयितुमारभते / ततः प्रभृति च तेषामुपरितनस्थितिगतं दलिकं न पुरुषवेदे सक्रमयति, किन्तु संज्वलनक्रोधे / तथा चाह सूत्रकृत् पच्छा नपुंसगं इत्थी। तो नोकसायछक्कं, छुन्भइ संजलणकोहम्मि // कषायाष्टकक्षयानन्तरं पश्चात् , 'नपुंसकं' नपुंसकवेदं क्षपयति, ततः “इत्थि" ति स्त्रीवेदम् , ततः षड् नोकषायान् क्षपयन् तेषामुपरितनस्थितिगतं दलिकं संज्वलनक्रोधे “छुब्भइ" ति क्षिपति, न पुरुषवेदे। एतेऽपि च षड् नोकषायाः संज्वलनक्रोधे पूर्वोक्तविधिना क्षिप्यमाणाः क्षिप्यमाणा अन्तर्मुहूर्तमात्रेण निःशेषाः क्षीणाः। तत्समयमेव च पुरुषवेदस्य बन्ध-उदय-उदीरणाव्यवच्छेदः समयोनावलिकाद्विकबद्धं मुक्त्वा शेषदलिकस्य क्षयश्च, ततोऽसाविदानीमवेदको जातः / एवं पुरुषवेदेन क्षपकश्रेणिं प्रतिपन्नस्य द्रष्टव्यम् / यदा तु नपुंसकवेदेन क्षपकश्रेणिं प्रतिपद्यते तदा प्रथमतः स्त्रीवेद-नपुंसकवेदौ युगपत् क्षपयति / स्त्रीवेद-नपुंसकवेदक्षयसमकालमेव च पुरुषवेदस्य बन्धो व्यवच्छिद्यते। तदनन्तरं चावेदकः सन् पुरुषवेद-हास्यादिषट्रे युगपत् क्षपयति / यदा तु स्त्रीवेदेन प्रतिपद्यते क्षपकश्रेणिं तदा प्रथमतो नपुंसकवेदम् , ततः स्त्रीवेदम् , स्त्रीवेदक्षयसमकालमेव च पुरुषवेदस्य बन्धव्यवच्छेदः / ततोऽवेदकः पुरुषवेद-हास्यादिषट्टे युगपत् क्षपयति // सम्प्रति पुरुषवेदेन क्षपकश्रेणि प्रतिपन्नमधिकृत्य प्रस्तुतमभिधीयते-क्रोधं वेदयमानस्य सतः तस्याः क्रोधाद्धायास्त्रयो विभागा भवन्ति, तद्यथा-अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेदनाद्धा च / तत्राश्वकर्णकरणाद्धायां वर्तमानः प्रतिसमयमनन्तानि अपूर्वस्पर्धकानि चतुर्णामपि संज्वलनानामन्तरकरणाद् उपरितनस्थितौ करोति / अस्यां चाश्वकर्णकरणाद्धायां वर्तमानः पुरुषवेदमपि समयोनावलिकाद्विकेन कालेन क्रोधे गुणसङ्क्रमेण सङ्कमयन् चरमसमये सर्वसङ्कमेण सङ्गमयति / तदेवं क्षीणः पुरुषवेदः / अश्वकर्णकरणाद्धायां च समाप्तायां किट्टिकरणाद्धायां प्रविशति / तत्र च प्रविष्टः सन् चतुर्णामपि संज्वलनानामुपरितनस्थितिगतस्य दलिकस्य किट्टीः करोति। ताश्च किट्टयः परमार्थतोऽनन्ता अपि स्थूरजातिमेदापेक्षया द्वादश कल्प्यन्ते। एकैकस्य 1 छा० तंप्रमाणेन नवा // 2 सं० हूतॆन पल्यो' / छा० हूर्तप्रमाणेन पल्यो' // 3 सं० सं०१ °माण प्रक्षिप्यमाणमन्त° / / 4 सं०१ त० म० स्थूलजा //