________________ 240 मलयगिरिमहर्षि विनिर्मितविवृत्युपेतं [गाथाः त्युदये च पञ्च पञ्चानन्तरोक्तानि सत्तास्थानानि / पञ्चविंशत्युदये सप्तविंशत्युदये च द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च / शेषेण्वष्टाविंशत्यादिषु चतुर्वृदयस्थानेषु प्रत्येकमष्टसप्ततिवर्जानि शेषाणि चत्वारि चत्वारि सत्तास्थानानि / सर्वसङ्ख्यया त्रिंशत् सत्तास्थानानि / / एवं षड्विंशतिबन्धकानामपि / अष्टाविंशतिबन्धकानामष्टावुदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / एतानि तिर्यक्पञ्चेन्द्रिय-मनुष्यानधिकृत्य वेदितव्यानि / एकविंशत्यादिष्वेकोनत्रिंशत्पर्यन्तेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च / त्रिंशदुदये चत्वारि-द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिश्च / एकोननवतिस्तीर्थकरनामसत्कर्मणो मिथ्यादृष्टेनरकगतिप्रायोग्यं बनतो मनुष्यस्यावसेया, शेषाणि पुनः सामान्यतस्तिरश्चो मनुष्यान् वाऽधिकृत्य वेदितव्यानि / एकत्रिंशददये त्रीणि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिश्च / एतानि तिर्थक्पञ्चेन्द्रियाणामवसेयानि, अन्यत्र पञ्चेन्द्रियस्य सत एकत्रिंशदुदयाभावात् / षडशीतिश्च मिथ्यादृष्टीनां तिर्यक्पञ्चेन्द्रियाणामवसेया, न सम्यग्दृष्टीनाम् , सम्यग्दृष्टीनामवश्यं देवद्विकबन्धसम्भवेनाष्टाशीतिसम्भवात् / अत्र सर्वसङ्ख्यया सत्तास्थानान्येकोनविंशतिः 19 / एकोनत्रिंशद्वन्धकस्य तान्येवाष्टावुदयस्थानानि / तकविंशत्युदये षड्विंशत्युदये च सप्त सप्त सत्तास्थानानि / तद्यथा-- द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिः त्रिनवतिः एकोननवतिः / तत्र तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं बध्नत आद्यानि पञ्च, मनुष्यगतिप्रायोग्यां बनत आद्यानि चत्वारि, देवगतिप्रायोग्यां बनतोऽन्तिमे द्वे / अष्टाविंशति-एकोनत्रिंशत्-त्रिंशदुदयेषु एतान्येवाष्टसप्ततिवर्जानि षट् षट् सत्तास्थानानि / एकत्रिंशदुदये आद्यानि चत्वारि / पञ्चविंशति-सप्तविंशत्युदययोः पुनरिमानि चत्वारि चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः त्रिनवतिः एकोननवतिश्च / सर्वाङ्कस्थापना-३१३५३६३५३६३६०३२, सर्वसङ्ख्ययैकोनत्रिंशद्वन्धे चतुश्चत्वारिंशत् सत्तास्थानानि / त्रिंशद्वन्धकस्यापि तान्येवाष्टावुदयस्थानानि, तान्येव च प्रत्येकं सत्तास्थानानि / केवलमिहैकविंशत्युदये आद्यानि द्विनवति-अष्टाशीति-षडशीति.अशीति-अष्टसप्ततिरूपाणि पञ्च सत्तास्थानानि तिर्यग्गतिप्रायोग्यामेव त्रिंशतं बनतो वेदितव्यानि, न मनुष्यगतिप्रायोग्याम् , तस्यास्तीर्थकरनामसहितत्वात् / देवगतिप्रायोग्या तु त्रिंशदाहारकद्विकसहिता सा एकविंशत्युदये न सम्भवति / त्रिनवति-एकोननवती मनुष्यगतिप्रायोग्यां त्रिंशतं बनतो देवस्य वेदितव्ये / षड्विंशत्युदये च तान्येव पञ्च सत्तास्थानानि, न त्रिनवति-एकोननवती / षड्रिंशत्युदयो हि तिरश्चां मनुष्याणां वाऽपर्याप्तावस्थायाम् , न च तदानीं देवगतिप्रायोग्याया मनुष्यगतिप्रायोग्यायों वा त्रिंशतो बन्धोऽस्तीति त्रिनवति-एकोननवती न प्राप्येते, शेषं तथैव / सर्वाङ्कस्थापना-३२५ 26 27 28 2 1, सर्वसङ्ख्यया त्रिंशद्वन्धे द्विचत्वारिंशत् सत्तास्थानानि / एकत्रिंशद्वन्धकस्य एकविधबन्धकस्य चोदयसत्तास्थानसंवेधो यथा प्राग् मनुष्यस्योक्तस्तथैव वक्तव्यः / तदेवमिन्द्रियाण्यधिकृत्य संवेध उक्तः / / 52 / / 1 सं०१ त० म० 'न्यतिर / छा० न्येन तिर° // 2 सं० 1 त० म०°दयेऽपि त्री // 3 छा० मुद्रि० °षु तान्ये° // 4 सं० सं० 2 मुद्रि० °यास्त्रिंश // 5 सं०१ त०म० व्यः / सर्वसंख्यया सत्तास्थानानि त्रिंशे द्वे शते 230 / तदे° //