________________ 49-50] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 225 न्द्रियभवाद् उद्धृत्य विकलेन्द्रियेषु तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु वा मध्ये समुत्पन्नानां सर्वपर्याप्तिभावादूर्ध्वमप्यन्तर्मुहूर्त कालं यावद् लभ्यते, परतोऽवश्यं वैक्रियशरीरादिबन्धसम्भवाद् न लभ्यते / भष्टसप्ततिस्तेजो-वायूनां मनुष्यगति-मनुष्यानुपूर्योरुद्वलितयोः प्राप्यते / तेजो-वायुभवाद् उद्धृत्य विकलेन्द्रियेषु तिर्यक्पश्चेन्द्रियेषु वा मध्ये समुत्पन्नानामन्तर्महेते कालं यावत् परतोऽवश्यं मनुष्यगति-मनुष्यानुपूर्योर्बन्धसम्भवात् / .. तदेवं सामान्येन मिथ्यादृष्टेर्बन्ध-उदय-सत्तास्थानान्युक्तानि / सम्प्रति संवेध उच्यते-तत्र मिथ्यादृष्टेस्त्रयोविंशतिं बनतः प्रागुक्तानि नवाप्युदयस्थानानि सप्रभेदानि सम्भवन्ति / केवलमेकविंशति-पञ्चविंशति-सप्तविंशति-अष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्रूपेषु षट्सूदयस्थानेषु देवनैरपिकानधिकृत्य ये भङ्गाः प्राप्यन्ते ते न सम्भवन्ति / त्रयोविंशतिर्हि अपर्याप्तैकेन्द्रियप्रायोग्या, न च देवा अपर्याप्तैकेन्द्रियप्रायोग्यं बध्नन्ति, तेषां तत्रोत्पादाभावात् ; नापि नैरयिकाः, तेषां सामान्यतोऽप्येकेन्द्रियप्रायोग्यबन्धासम्भवात् / ततोऽत्र देव-नैरयिकसत्कोदयस्थानभन्ना न प्राप्यन्ते / सत्तास्थानानि पञ्च, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च / तत्रैकविंशति-चतुर्विंशति-पञ्चविंशति-पड़िशत्युदयेषु पश्चापि सत्तास्थानानि / नवरं पञ्चविंशत्युदये तेजो-वायुकायिकानधिकृत्याष्टसप्ततिः प्राप्यते, षड्रिंशत्युदये तेजो वायुकायिकान् तेजो वायुभवाद् उद्धृत्य विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियेषु मध्ये समुत्पन्नान् वाऽधिकृत्य प्राप्यते / सप्तविंशति-अष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्-एकत्रिंशद्रूपेषु पञ्चसु अष्टसप्ततिवर्जानि शेषाणि प्रत्येकं चत्वारि चत्वारि सत्तास्थानानि / सर्वसङ्ख्यया सर्वाण्युदयस्थानान्यधिकृत्य त्रयोविंशतिबन्धकस्य चत्वारिंशत् सत्तास्थानानि / एवं पञ्चविंशति-षड्डिशतिबन्धकानामपि वक्तव्यम्, केवलमिह देवोऽप्यात्मीयेषु सर्वेष्वप्युदयस्थानेषु वर्तमानः पर्याप्तकैकेन्द्रियप्रायोग्यां पञ्चविंशतिं पड्रिंशतिं च बनातीत्यवसेयम् / नवरं पञ्चविंशतिबन्धे बादर-पर्याप्त प्रत्येक-स्थिरा-ऽस्थिरशुभा-ऽशुभ-दुर्भगा-ऽनादेय-यशःकीर्ति-अयशःकीर्तिपदैरष्टौ भका अवसेयाः न शेषाः, सूक्ष्मसाधारणा-ऽपर्याप्तकेषु मध्ये देवस्योत्पादाभावात् / सत्तास्थानभावना पञ्चविंशतिबन्धे षड्रिंशतिबन्धे च प्रागिव कर्तव्या / सर्वसङ्ख्यया चत्वारिंशत् चत्वारिंशत् सत्तास्थानानि / अष्टाविंशतिबन्धकस्य मिथ्यादृष्टेढे उदयस्थाने, तद्यथा-त्रिंशद् एकत्रिंशत् / तत्र त्रिंशत् तिर्य पञ्चेन्द्रिय-मनुष्यानधिकृत्य, एकत्रिंशत् तिर्यक्पञ्चेन्द्रियानेव / अष्टाविंशतिबन्धकस्य चत्वारि सत्तास्थानानि तद्यथा-द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिः। तत्र त्रिंशदुदये चत्वार्यपि; तत्राप्येकोननवतिर्यो नाम वेदकसम्यग्दृष्टिर्बद्धतीर्थकरनामा परिणामपरावर्तनेन मिथ्यात्वं गतो नरकाभिमुखो नरकगतिप्रायोग्यामष्टाविंशतिं बध्नाति तमधिकृत्य वेदितव्या; शेषाणि पुनस्त्रीणि सत्तास्थानान्यविशेषेण तिर्यग्-मनुष्याणाम् / एकत्रिंशदुदये एकोननवतिबर्जानि त्रीणि सत्तास्थानानि; एकोननवतिर्हि तीर्थकरनामसहिता, न च तीर्थकरनाम तिर्यक्षु सम्भवति / सर्वसङ्ख्यया अष्टाविंशतिबन्धे सप्त सत्तास्थानानि / देवगतिप्रायोग्यवर्जी शेषामेको 1-2 सं० 1 त० म० हूर्तका // 3 सं० सं० 2 छा० 'त्य / सप्त॥ 29