________________ 200 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः भावे भगा द्वात्रिंशत् / सासादनभावा-ऽभावे द्वाविंशतिबन्धे अमूनि त्रीण्युदयस्थानानि, तद्यथाअष्टौ नव दश च / एतानि च प्रागिव भावनीयानि / चूर्णिकारस्त्वसंज्ञिन्यपि लब्धिपर्याप्तके त्रीन् वेदान् यथायोगमुदयप्राप्तानिच्छति, ततस्तन्मतेन तस्य द्वाविंशतिबन्धे एकविंशतिबन्धे च प्रत्येकमेकैकस्मिन् सप्तादावुदयस्थाने त्रिभिर्वेदैश्चतुर्विंशतिभङ्गा अवसेयाः / 'एकस्मिन्' पर्याप्तसंज्ञिरूपे जीवस्थाने नवोदयस्थानानि, तानि च प्रागिव सप्रभेदानि वक्तव्यानि / / "तिग तिग पन्नरस संतम्मि" 'अष्टसु' पूर्वोक्तरूपेषु जीवस्थानेषु त्रीणि त्रीणि सत्तास्थानानि, तद्यथा--अष्टाविंशतिः सप्तविंशतिः षड्विंशतिश्च / 'पञ्चखपि च' उक्तरूपेषु जीवस्थानेषु तान्येव त्रीणि त्रीणि सत्तास्थानानि / 'एकस्मिन्' पर्याप्तसंज्ञिनि पञ्चेन्द्रियरूपे जीवस्थाने पुनः पञ्चदश सत्तास्थानानि, तानि च प्रागिव सप्रभेदानि वक्तव्यानि / - सम्प्रति संवेध उच्यते-तत्राष्टसु जीवस्थानेषु द्वाविंशतिबन्धस्थानम् त्रीण्युदयस्थानानि, तद्यथा-अष्टौ नव दश च / एकैकस्मिन्नुदयस्थाने त्रीणि त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः सप्तविंशतिः षड्विंशतिश्च / सर्वसङ्ख्यया नव सत्तास्थानानि / पञ्चसूक्तरूपेषु जीवस्थानेषु द्वे द्वे बन्धस्थाने, तद्यथा-द्वाविंशतिः एकविंशतिश्च / तत्र द्वाविंशतिबन्धे प्रागुक्तान्येव त्रीण्युदयस्थानानि, एकैकस्मिंश्च उदयस्थाने तान्येव पूर्वोक्तानि त्रीणि त्रीणि सत्तास्थानानि / एकविंशतिबन्धेऽमूनि त्रीण्युदयस्थानानि, तद्यथा--सप्त अष्टौ नव / एकैकस्मिंश्च उदयस्थाने एकैकं सत्तास्थानं अष्टाविंशतिः, एकविंशतिबन्धो हि सासादनभावमुपागतेषु प्राप्यते, सासादनाश्चावश्यमष्टाविंशतिसत्कर्माणः, तेषां दर्शनत्रिकस्य नियमतो भावात् , ततस्तेषु सत्तास्थानमष्टाविंशतिरेव / तदेवमेकविंशतिबन्धे त्रीणि सत्तास्थानानि, द्वाविंशतिबन्धे च नवेति / सर्वसञ्जपया पञ्चसु जीवस्थानेषु प्रत्येकं द्वादश द्वादश सत्तास्थानानि भवन्ति / 'एकस्मिन्' संज्ञिपर्याप्ते पुनः जीवस्थाने संवेधः प्रागुक्त एव सप्रपञ्चो द्रष्टव्यः // 36 // सम्प्रति नामकर्म जीवस्थानेषु चिन्तयन्नाहपण दुग पणगं पण चउ, पणगं पणगा हवंति तिनेव / पण छ प्पणगं छ च्छ प्पणगं अट्ठष्ट दसगं ति // 37 // सत्तेव अपनत्ता, सामी तह सुहम बायरा चेव / विगलिंदिया उ तिनि उ, तह य असन्नी य सन्नी य // 38 // अनयोर्गाथयोः पदानां यथाक्रम सम्बन्धः, तद्यथा-"पण दुग पणेगं" प्रति "सामी सत्तेव अपज्जत्ता" बन्ध-उदय-सत्ताप्रकृतिस्थानानां यथाक्रमं पञ्चकं द्विकं पञ्चकं च प्रति स्वामिनः सप्तैवापर्याप्ताः / इयमत्र भावना—सप्तानामपर्याप्तानां पञ्च पञ्च बन्धस्थानानि, द्वे द्वे उदयस्थाने, पश्च पञ्च सत्तास्थानानि / तत्र बन्धस्थानान्यमूनि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः एकोन 1 सं० 1 त० म० °दयस्थाने प्राप्ता° // 2 सं० सं० 1 त० म० °णगं" ति “सा //