________________ 184 मलयगिरिमहर्षि विनिर्मितविकृत्युपेतं [गाया समचतुरसम् उपघातं प्रत्येकमिति पञ्च प्रकृतयः प्रागुक्तायां तिर्यक्पञ्चेन्द्रिययोग्यायामेकविंशतौ प्रक्षिप्यन्ते तिर्यगानुपूर्वी चापनीयते ततः पञ्चविंशतिर्भवति, अत्र सुभग-दुर्भगाभ्यामादेया-ऽनादेयाभ्यां यशःकीर्ति-अयश कीर्तिभ्यां चाष्टौ भङ्गाः / ततः शरीरपर्याप्स्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां सप्तविंशतिर्भवति, तत्रापि प्रागिवाष्टौ भङ्गाः / ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छ्वासनाम्नि प्रक्षिप्तेऽष्टाविंशतिर्भवति, अत्रापि प्रागिवाष्टौ भनाः / अथवा शरीरपर्यास्या पर्याप्तस्य उच्चासेऽनुदिते उद्योतनाम्नि तूदितेऽष्टाविंशतिर्भवति, अत्राप्यष्टौ भङ्गाः / सर्वसङ्ख्ययाऽष्टाविंशतौ भङ्गाः षोडश / ततो भाषापर्याप्स्या पर्याप्तस्य उच्छाससहितायामष्टाविंशतौ सुस्वरे प्रक्षिप्ते एकोनत्रिंशत् , अत्रापि प्रागिवाष्टौ भङ्गाः / अथवा प्राणापानपर्याप्स्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तदिते एकोनत्रिंशत् , अत्रापि प्रागिवाष्टौ भनाः। सर्वसङ्ख्यया एकोनविंशति षोडश / ततः सुस्वरसहितायामेकोनविंशति उद्योते प्रक्षिप्ते त्रिंशत् , अत्रापि प्रागिवाष्टौ भङ्गाः / सर्वसङ्ख्यया वैक्रियं कुर्वतां षट्पञ्चाशद् भङ्गाः 56 / सर्वेषां तिर्यपश्वेन्द्रियाणां सर्वसङ्ख्यया एकोनपञ्चाशच्छतानि द्विषष्ट्यधिकानि 4962 भङ्गानामवसेयानि / सामान्यमनुष्याणामुदयस्थानानि पञ्च, तद्यथा—एकविंशतिः षड्विंशतिः अष्टाविंशतिः / एकोनत्रिंशत् त्रिंशत् / एतानि सर्वाण्यपि यथा प्राक् तिर्यक्पश्चेन्द्रियाणामुक्तानि तथैवात्रापि वक्तव्यानि, नवरं तिर्यग्गति-तिर्यगानुपूर्वीस्थाने मनुष्यगति-मनुष्यानुपूयौँ वेदितव्ये / एकोनत्रिंशत् त्रिंशच्च उद्योतरहिता वक्तव्या, वैक्रिया-ऽऽहारकसंयतान् मुक्त्वा शेषमनुष्याणामुद्योतोदयाभावात् / तत एकोनविंशति भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि 576, त्रिंशत्येकादश शतानि द्विपञ्चाशदधिकानि 1152 अवगन्तव्यानि / सर्वसङ्ख्यया प्राकृतमनुष्याणां षड्विंशतिशतानि द्विकाधिकानि 2602 भङ्गानां भवन्ति / वैक्रियमनुष्याणामुदयस्थानानि पञ्च, तद्यथा-पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / तत्र मनुष्यगतिः पञ्चेन्द्रियजातिः वैक्रियं वैक्रियाङ्गोपाङ्गं समचतुरसम् उपघातं त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम सुभग-दुर्भगयोरेकतरम् आदेया-ऽनादेययोरेकतरं यशःकीर्ति-अयशःकीयो रेकतरा इति त्रयोदश प्रकृतयो द्वादशसङ्ख्याभिर्बुवोदयाभिः सह पञ्चविंशतिः 25 / अत्र सुभग-दुर्भगा-ऽऽदेया-ऽनादेय-यशःकीर्ति-अयशःकीर्तिपदैरष्टौ भङ्गाः। देशविरतानां संयतानां च वैक्रियं कुर्वतां सर्वप्रशस्त एव भङ्गो वेदितव्यः। ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां सप्तविंशतिः, अत्रापि त एवाष्टौ भङ्गाः / ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छासे प्रक्षिप्तेऽष्टाविंशतिः, अत्रापि प्रागिवाष्टौ भङ्गाः / अथवा संयतानामुत्तरवैक्रियं कुर्वतां शरीरपर्याप्त्या पर्याप्तानामुच्छासेऽनुदिते उद्योतनाम्नि तूदितेऽष्टाविंशतिः, अत्रैक एव भङ्गः, संयतानां दुर्भगा-ऽनादेया-ऽयशःकीर्युदयाभावात् / सर्वसङ्ख्यया अष्टाविंशतौ भङ्गा नव / ततो भाषापर्याप्त्या पर्याप्तस्य उच्छाससहितायामष्टाविंशतौ सुस्वरे क्षिप्ते एकोनत्रिंशद् भवति, अत्रापि प्रागिवाष्टौ भङ्गाः। अथवा संयतानां स्वरे 1 सं० 1 त० म० 'यां सत्यां सप्त° //