________________ 121 शतकनामा पञ्चमः कर्मग्रन्थः / माणु सर्वजीवानन्तगुणाः सम्प्राप्यन्ते / उक्तं च रोहणसमयम्मि जीवो, उप्पाएइ उ गुणे सपञ्चयओ। सबजियाणंतगुणे, कम्मपएसेसु सवेसु // ( कर्मप्र० गा० 29) गुणशब्देनेहाविभागपलिच्छेदा उच्यन्ते, शेषं सुगमम् / कर्मप्रदेशाः पुनः प्रतिस्कन्धं सर्वेऽपि सिद्धानामप्यनन्तभाग एव वर्तन्तेऽतः कर्मप्रदेशेभ्यो रसच्छेदा अनन्तगुणाः सिद्धा भवन्तीति / अत्राह-ननूक्तो भवद्भिः सप्रपञ्चं प्रदेशबन्धः परं कस्माद् हेतोरमुं जीवः करोति ? इति वक्तव्यमिति प्रश्नमाशङ्कय प्रदेशबन्धस्य प्रसङ्गतः पूर्वोक्तानां प्रकृति-स्थिति-अनुभागबन्धानां च हेतून् निरूपयन्नाह--"जोगा पयडिपएसं, ठिइअणुभागं कसायाउ" त्ति योगो वीर्यं शक्तिरुत्साहः पराक्रम इति पर्यायाः, तस्माद् योगात् प्रकरणं प्रकृतिः-कर्मणां ज्ञानावरणादिस्वभावः, प्रकृष्टाः पुद्गलास्तिकायदेशाः प्रदेशाः-कर्मवर्गणान्तःपातिनः कर्मस्कन्धाः, प्रकृतयश्च प्रदेशाश्च प्रकृतिप्रदेशम् समाहारो द्वन्द्वः, तद् जीवः करोतीति शेषः, प्रकृति-प्रदेशबन्धयोर्योगो हेतुरित्यर्थः / एतदुक्तं भवति—यद्यपि षडशीतिकशास्त्रे मिथ्यात्वा-ऽविरति-कषाय-योगाः सामान्येन कर्मणो बन्धहेतव उक्तास्तथाप्याद्यकारणत्रयाभावेऽप्युपशान्तमोहादिगुणस्थानकेषु केवलयोगसद्भावे वेदनीयलक्षणा प्रकृतिस्तत्प्रदेशाश्च बध्यन्ते, अयोग्यवस्थायां तु योगाभावे न बध्यन्ते इत्यन्वयव्यतिरेकाभ्यां ज्ञायते प्रकृति-प्रदेशबन्धयोर्योग एव प्रधानं कारणम् / तथा " ठिइअणुभागं कसायाउ" ति स्थान-स्थितिः, कर्मणोऽन्तर्मुहूर्तादिकं सप्ततिसागरोपमकोटीकोटीपर्यन्तमवस्थानमित्यर्थः, अनु-पश्चाद् बन्धोत्तरकालं भजन-स्थितेः सेवनमनुभवनं यस्यासावनुभागो रस इत्यर्थः, स्थितिश्चानुभागश्च स्थित्यनुभागम् , समाहारो द्वन्द्वः, तद् जीवः करोतीति शेषः / कस्मात् ? इत्याह---'कषायात्' कषायवशात् / इयमत्र भावना-कषायाः-क्रोध-मान-माया-लोभाः, तज्जनितो जीवस्याध्यवसायविशेषः कषायशब्देनेहोच्यते, कषाया खुदीर्णा नानाजीवानां कालभेदेनैकजीवस्य वा सर्वजघन्याया अपि ज्ञानावरणादिकर्मस्थितेनिवर्तकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यान्तौहूर्तिकान्यध्यवसायस्थानानि जनयन्ति, समयाधिकतज्जघन्यस्थितिजनकानि तु त एव तेभ्यस्तानि विशेषाधिकानि जनयन्ति, द्विसमयाधिकतजघन्यस्थितिजनकानि पुनस्त एवानन्तरेभ्यस्तानि विशेषाधिकानि जनयन्ति, त्रिसमयाधिकतज्जघन्यस्थितिजनकानि पुनस्त एवानन्तरेभ्यस्तानि विशेषाधिकानि जनयन्ति, एवं समयोत्तरवृद्धतज्जघन्यस्थितिजनकानि विशेपाधिकानि तावद् वाच्यानि यावत् त एव कषायाः समयोनोत्कृष्टज्ञानावरणादिस्थितिजनकाध्यवसायस्थानेभ्यः सर्वोत्कृष्टतत्स्थितिजनकाध्यवसायस्थानानि विशेषाधिकानि निर्वर्तयन्ति / एतानि सर्वाण्यपि मिलितान्यसद्ध्येयलोकाकाशप्रदेशप्रमाणान्येव भवन्ति, स्थाप्यमानानि च विषमचतुरस्रं क्षेत्रमास्तृणन्ति / स्थापना चेयम्-88888887 तदेवमेतैः कषायजनिताध्यवसायैर्जन्यत्वात् कर्मणः स्थितिः कषायप्रत्यया०००००°/ सिद्धा। तथा तेषामेव कषायाणां सम्ब 1 प्रहणसमये जीव उत्पारयति तु गुणान् स्वप्रत्ययतः / सर्वजीवानन्तगुणान् कर्मप्रदेशेषु सर्वेषु / 000000 16