________________ 94] शतकनामा पञ्चमः कर्मग्रन्थः। बन्नाति, पुनः समातेनासलवातेन वा कालेन पूर्वोक्तजघन्ययोगं प्राप्य स एव जघन्यं प्रदेशबन्धं करोति, पुनरजघन्यमित्येवं जघन्या-ऽजघन्ययोः प्रदेशबन्धयोः संसरतामसुमतां द्वावप्येती सादि-अध्रुवौ भवतः / इति भावितस्त्रिंशत उत्तरप्रकृतीनामनुत्कृष्टप्रदेशबन्धश्चतुर्की, उत्कृष्ट-जघन्या-ऽजघन्यप्रदेशबन्धश्च द्विधा / शेषे का वार्ता ? इत्वाह- "दुहा सेसि सपत्थ" त्ति पदं भूयोऽप्यनुवर्त्यते, शेषे' भणित्तत्रिंशस्तकृत्यचशिष्टे स्त्यानद्धित्रिक-मिथ्यात्वा-ऽनन्तानुबन्धिचतुष्टय-वर्णादिचतुष्क-तैजसकार्मणा-गुरुलघु-उपघात-निर्माणलक्षणे सप्तदशध्रुवप्रकृतिकदम्बके औदारिक-वैक्रिया-ऽऽहारकारीरत्रया-भोपाङ्गत्रय-संस्थानषट्क-संहननषट्क-जातिपञ्चक-गतिचतुष्क-विहायोगतिद्विका अनुपूर्वीचतुष्क तीर्थकरनाम-उच्छासनाम-उद्योतनामा-ऽऽतपनाम-पराघातनाम-त्रसदशक-स्थावरक्शक-उच्चैगौत्र-नीचैगोत्र-साता-ऽसातवेदनीय-हास्य-रति-अरति-शोक-वेदत्रया-ऽऽयुश्चतुष्टयलक्षणत्रिसप्ततिसक्याऽध्रुवबन्धिप्रकृतिसमूहे च सर्वत्रोत्कृष्टाऽनुत्कृष्ट-जघन्या-ऽजघन्यलक्षणे चतुर्विकरपेऽपि प्रदेशबन्धे 'द्विधा' द्विप्रकारः सादिरध्रुवश्च बन्धो भवति / तथाहि-~-अध्रुवबन्धिनीनामअवषन्धिवादेवोत्कृष्टा-ऽनुत्कृष्ट-जघन्या-ऽजघन्यस्तत्प्रदेशबन्धः सर्वोऽपि सादि-अध्रुव एव भवति / स्त्वामर्दिनिक-मिथ्यात्वा-ऽनन्तानुबन्धिनां सप्तविधवन्धक उत्कृष्टयोगे वर्तमानो मिथ्यादृष्टिरुत्कृप्रदेशबन्धमेकं द्वौ वा समयौ यावत् करोति, सम्यग्दृष्टिरेताः प्रकृतीन बध्नातीति मिथ्यादृष्टिहणम् / मिथ्यात्वर्जा एताः प्रकृतीः सास्वादनोऽपि बध्नाति, परं भणितप्रकारेण सास्वादनस्योत्कृष्टयोगो न लभ्यत इति तस्याग्रहणम् / उत्कृष्टयोगस्यैतावानेव काल इत्येक-द्विसमयनियमः / उत्कृष्टयोगात् प्रतिपत्य स एवानुत्कृष्टप्रदेशबन्धं करोति, पुनः स एवोत्कृष्टमित्येवं द्वावप्येतौ सादि-अनुषौ / जघन्यप्रदेशबन्धं पुनरेतासां सर्वजघन्यवीर्यलब्धिर्भवाद्यसमये वर्तमानः सप्तविधं 'बनम् अपर्याप्तसूक्ष्मनिगोदः करोति, द्वितीयादिसमयेषु च स एवाजघन्यं करोति, कालान्तरेण पुमः स एव अघन्यं करोतीत्येतावपि द्वौ सादि-अध्रुवौ भवतः / तथा वर्णचतुष्क-तैजस-कार्मणाशुरुलघु-उपघात-निर्माणलक्षणस्य प्रकृतिनवकस्याप्युत्कृष्टा-ऽनुत्कृष्टौ जघन्या-ऽजघन्यौ च प्रदेशवन्धौ सावि-अध्रुवाषेवमेव वक्तव्यौ। नवरमुत्कृष्टयोगो मूलप्रकृतिसप्तविधबन्धको नाम्नस्तिर्यग्गतिः तिर्यगासुपूर्वी एकेन्द्रियजातिः औदारिकशरीरं हुण्डसंस्थानं स्थावरनाम बादर-सूक्ष्मयोरन्यतरद् अपर्याप्तकं प्रत्येक साधारणयोरन्यतरद् अस्थिरनाम अशुभनाम दुर्भगनाम अनादेयनाम अयशकीर्तिः वर्णचतुष्कं सैजस-कार्मणे अगुरुलघु उपघातं निर्माणमित्येवं त्रयोविंशतिमुत्तरप्रकृती नन् मिथ्यादृष्टिरुत्कृष्टप्रदेशवन्धको वाच्यः / शेषं तथैव / नाम्नो हि पञ्चविंशत्यादिबन्धग्रहणे बहवो भागा भवन्तीति त्रयोविंशतिबन्धग्रहणमिति / __ माविसा उत्तरप्रकृतीराश्रित्योत्कृष्टा-अनुत्कृष्ट-जघन्या-ऽजघन्यप्रदेशबन्धेषु साद्यादिविकल्पाः। सम्बति मूलपातीः प्रतीत्य उत्कृष्टप्रदेशबन्धादिभङ्गेषु साद्यादिभङ्गकानभिधित्सुराह–'मूलछगेऽशुजोसो घउह" ति 'मूलषट्के' मूलप्रकृतिषट्के–ज्ञानावरण-दर्शनावरण-वेदनीय-नाम-गोत्राअन्तरायलक्षणेऽनुत्कृष्टः प्रदेशबन्धः 'चतुर्धा' सादि-अनादि-ध्रुवा-ऽध्रुवलक्षणश्चतुःप्रकारो भवति / तथाहि-प्रस्तुतकर्मषट्कविषयः क्षपकस्योपशमकस्य वा सूक्ष्मसम्परायस्य सर्वोत्कृष्टयोगे वर्तमान