________________ 112 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथा: नेह गृहीतः / तिर्यश्चस्तु तीर्थकरनाम न बध्नन्तीत्युपेक्षिताः / मनुष्यास्तु भवाद्यसमये तीर्थकरनामसहितां नान्न एकोनत्रिंशतमेव बध्नन्त्यतस्तत्राल्पा भागा भवन्ति / एकत्रिंशद्वन्धस्तु तीर्थकरनामसहितः संयतस्यैव भवति, तत्र च वीर्यमल्पं न लभ्यते / अन्येषु तु नामबन्धेषु तीर्थकरनामैव न बध्यतेऽतः शेषपरिहारेण त्रिंशद्वन्धकस्य देवस्यैव ग्रहणम् / देवद्विक-वैक्रियद्विकयोस्तु बद्धतीर्थकरनामा देव-नारकेभ्यश्च्युत्वा समुत्पन्नो मूलप्रकृतिसप्तविधबन्धको देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिक्रियशरीरं वैक्रियाङ्गोपाङ्गं समचतुरस्रसंस्थानम् उच्छासं पराघातं प्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं यश कीर्ति-अयशःकीयो रेकतरं सुभगनाम सुस्वरनाम आदेयनाम वर्णचतुष्टयं तैजस-कार्मणे अगुरुलघु उपघातं निर्माणं तीर्थकरनामेतिलक्षणां देवगतिप्रायोग्यां नामैकोनत्रिंशतं निर्वर्तयन् स्वप्रायोग्यसर्वजघन्यवीर्ये व्यवस्थितो भवाद्यसमये वर्तमानो मनुष्यो जघन्यप्रदेशबन्धं करोति / देवनारका हि तावद् भवप्रत्ययादेवैतत् प्रकृतिचतुष्टयं न बनन्तीति नेहाधिकृताः। तिर्यञ्चः पुनरभोगभूमिजा भवाद्यसमयेऽपि बनन्त्येतत् , केवलं ते देवगतिप्रायोग्यामष्टाविंशतिमेव पूर्वप्रदर्शितस्वरूपां रचयन्ति, नैकोनत्रिंशदादिबन्धान , तेषां तीर्थकरा-ऽऽहारकसहितत्वात्, तिरश्वां तु तदबन्धकत्वात् ; अतस्तेषु भागा अल्पे लभ्यन्ते इति तेऽपीह नाधिक्रियन्ते / मनुष्यस्याप्यष्टाविंशतिबन्धकस्य भागा बहवो न लभ्यन्ते। त्रिंशद्-एकत्रिंशद्वन्धौ तु देवगतिप्रायोग्यौ संयतस्य भवतः, तत्र च वीर्यमल्पं न लभ्यते / अन्ये तु देवगतिप्रायोग्यबन्धा एव न सन्तीत्यालोच्य एकोनत्रिशद्वन्धकस्य मनुष्यस्यैव ग्रहणम् / ननु तिर्यक्षु पर्याप्तासंज्ञी देवगतिप्रायोग्यमेतत् प्रकृतिचतुष्टयं बनाति स कस्मादिह नाङ्गीकृतः ? उच्यते-प्रभूतयोगत्वात् ; अपर्याप्तसंज्ञियोगाद्धि पर्याप्तासंज्ञियोगो जघन्योऽप्यसङ्ख्येयगुण इति / “सुहुमनिगोयाइखणि सेस" ति सूक्ष्मनिगोदजीवोऽपर्याप्तक आदिक्षणे-भवाद्यसमये 'शेषाः' भणितैकादशप्रकृतिभ्योऽवशिष्टा नवोत्तरशतसयाः प्रकृतीराश्रित्य सर्वजघन्यवीर्यलब्धियुक्तो यथासम्भवं च बह्वीः प्रकृतीर्वघ्नन् जघन्यप्रदेशबन्धाः करोति, सर्वासामप्यत्र बन्धसद्भावात् , सर्वजघन्यवीर्यस्य चात्रैव सम्भवादिति // 93 // . निरूपितं जघन्यप्रदेशबन्धस्वामित्वम् / अधुना प्रदेशबन्धमेव साद्यादिभङ्गकैर्निरूपयन्नाह दसणछगभयकुच्छाबितितुरियकसायविग्घनाणाणं / - मूलछगेऽणुकोसो, चउह दुहा सेसि सव्वत्थ // 94 // - दर्शनषट्कं-चक्षुर्दर्शना-ऽचक्षुर्दर्शना-ऽवधिदर्शन-केवलदर्शनावरण-निद्रा-प्रचलालक्षणं, मयजुगुप्से " बितितुरियकसाय " त्ति कषायशब्दस्य प्रत्येकं योगाद् द्वितीयकषायाः-अप्रत्याख्यानावरणाः, तृतीयकषायाः-प्रत्याख्यानावरणाः, तुर्याः-चतुर्थाः कषायाः संज्वलनकषायाः, विघ्नानि पञ्च-दान-लाभ-भोग-उपभोग-वीर्यान्तरायाख्यानि, ज्ञानानि-ज्ञानावरणानि मतिज्ञानावरण-श्रुतज्ञानावरणा-ऽवधिज्ञानावरण-मनःपर्यायज्ञानावरण-केवलज्ञानावरणलक्षणानि पञ्च इत्येतासामुत्तरप्रकृतिषु मध्ये त्रिंशतः प्रकृतीनां तथा "भूलछगे" त्ति मूलप्रकृतिषट्के–ज्ञानावरण-दर्शनावरण-वेदनीय-नाम-गोत्रा-ऽन्तरायलक्षणेऽनुत्कृष्ट एव प्रदेशबन्धः "चउह" ति चतुर्धा सादिअनादि-ध्रुवा-ध्रुवरूपचतुर्विकल्पोऽपि भवतीत्यर्थः / इह तावद् यत्र सर्वबहवः कर्मस्कन्धा गृह्यन्ते