________________ 110 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः तीर्थकरनामसहिते एकत्रिंशद्वन्धेऽप्येतद् बध्यते, किन्तु तत्र भागबाहुल्याद् न गृह्यते / तथा शेषाः' भणितचतुःपञ्चाशत्प्रकृतिभ्य उद्धरिताः स्त्यानचित्रिक-मिथ्यात्वा-ऽनन्तानुबन्धिचतुष्टयस्त्रीवेद-नपुंसकवेद-नारकायुष्क-तिर्यगायुष्क-नरकगति-नरकानुपूर्वी-तिर्यग्गति-तिर्यगानुपूर्वी मनुष्यगति-मनुष्यानुपूर्वी-एकेन्द्रियजाति-द्वीन्द्रियजाति-त्रीन्द्रियजाति-चतुरिन्द्रियजाति-पञ्चेन्द्रियजाति-औदारिकशरीर-औदारिकाङ्गोपाङ्ग-तैजस-कार्मण-प्रथमवर्जसंहनन-प्रथमवर्जसंस्थान-वर्णचतुष्का-गुरुलघु-उपघात-पराघात-उच्छासा-ऽऽतप-उद्योता-प्रशस्तविहायोगति-त्रस-स्थावर-बादरसूक्ष्म-पर्याप्ता-ऽपर्याप्त-प्रत्येक साधारण-स्थिरा-ऽस्थिर-शुभा-ऽशुभ-दुर्भग-दुःस्वरा-ऽनादेया-ऽयशःकीर्ति-निर्माण-नीचेौत्राणि चेत्येताः षट्षष्टिप्रकृतयः 'उत्कृष्टप्रदेशकाः' उत्कृष्टप्रदेशबन्धाः "मिच्छो" ति मिथ्यादृष्टिरेव करोति / तथाहि-मनुष्यद्विक-पञ्चेन्द्रियजाति-औदारिकद्विकतैजस-कार्मण-वर्णचतुष्का-गुरुलघु-उपघात-पराघात-उच्छास-त्रस-बादर-पर्याप्त प्रत्येक-स्थिरास्थिर-शुभा-ऽशुभा-ऽयशःकीर्ति-निर्माणलक्षणाः पञ्चविंशतिप्रकृतीर्मुक्त्वा शेषा एकचत्वारिंशत् सम्यदृष्टेर्बन्ध एव नागच्छन्ति / सास्वादनस्तु काश्चिद् बध्नाति परं तस्योत्कृष्टयोगो न लभ्यतेऽत एता एकचत्वारिंशद प्रकृतीमिथ्यादृष्टिरेवोत्कृष्टयोगे वर्तमानो मूलप्रकृतीनामुत्तरप्रकृतीनां च यथासम्भवमल्पतरबन्धक उत्कृष्टप्रदेशाः करोति / या अपि चोक्तस्वरूपाः पञ्चविंशतिप्रकृतयः सम्यग्दृष्टेबन्धे समागच्छन्ति तास्वपि मध्ये औदारिक-तैजस-कार्मण-वर्णादिचतुष्का-गुरुलघुउपघात-बादर-प्रत्येका-ऽस्थिरा-ऽशुभा-ऽयशःकीर्ति-निर्माणलक्षणानां पञ्चदशप्रकृतीनामपर्याप्तकेन्द्रिययोग्यो नामस्त्रगोविंशतिप्रकृतिनिष्पन्नः तैजस-कार्मण-वर्णादिचतुष्का-शुरुलघु-उपघात-निर्माण-तिर्यग्गति-तिर्यगानुपूर्वी-एकेन्द्रियजाति-औदारिकशरीर-हुण्डसंस्थान-स्थावर-बादर-सूक्ष्मैकतरा-ऽपर्याप्त प्रत्येक-साधारणान्यतरा-ऽस्थिरा-ऽशुभ-दुर्भगाऽनादेया-ऽयशःकीर्तिलक्षणो बन्धः तेनैव सह बध्यमानानमुत्कृष्टप्रदेशबन्धो लभ्यते, नोत्तरैः पञ्चविंशत्यादिबन्धैः, भागबाहुल्यात् / शेषाणां तु मनुष्ट द्विक-पञ्चेन्द्रियजाति-औदारिकाङ्गोपाङ्ग-पराघात-उच्छ्वास-बस-पर्याप्त-स्थिरशुभलक्षणानां दशमातीनां यथासम्भवं पर्याप्तैकेन्द्रिया-ऽपर्याप्तत्रसयोग्यपञ्चविंशतिबन्धेनैव सह बध्यमानानामुत्कृष्टः प्रदेशबन्धो लभ्यते, नोत्तरैः षड्विंशत्यादिबन्धैः, भागबाहुल्यादेव / नाप्यधस्तनेन त्रयोविंशतिबन्धेन, तत्रैतासां बन्धाभावादेव / तौ च त्रयोविंशति-पञ्चविंशतिबन्धौ सम्यग्दृष्टेन भवतः, देव-पर्याप्तमनुष्यप्रायोग्यबन्धकत्वात् तस्येति अत एतासामपि पञ्चविंशतिप्रकृतीनां यथोक्तप्रकारेण त्रयोविंशत्या पञ्चविंशत्या च सह बध्यमानानां सप्तविधबन्धक उत्कृष्टयोगों मिथ्यादृष्टिरेवोत्कृष्ट प्रदेशबन्धं करोतीति // 92 // निरूपितमुत्तरप्रकृतीनामुत्कृष्टप्रदेशबन्धस्वामित्वम् / अधुना तासामेव जघन्यप्रदेशबन्धस्वामित्वमभिधित्सुराह सुमुणी दुन्नि असन्नी, नरयतिग सुराउ सुरविउव्विदुगं / सम्मो जिणं जहन्नं, सुहुमनिगोयाइखणि सेसा // 93 // 'सुमुनिः' प्रमादरहितत्वेन प्रधानसाधुः-अप्रमत्तयतिः "दुन्नि" ति द्वे प्रकृती आहारकश१ सं. 1-2 त० म० छा० ऽशुभ-य° //