________________ देवेन्द्रसूरिविरचितः स्वोपनटीकोपेतः [गाया एमेव विउव्वाहारतेयभासाणुपाणमणकम्मे / . सुहुमा कमावमाहो, जणूणंगुलअसंखंसो॥७६ // "एघमेव' वकारलोपः “यावत्तावज्जीवितवर्तमानावटप्रावारकदेवकुलैवमेवे वः” (सिद्ध०८१-२७१) इति प्राकृतसूत्रेण, पूर्वोक्तौदारिकशरीरग्रहणप्रायोग्या-ऽग्रहणप्रायोग्यवर्गणान्यायेन वैक्रिया-ऽऽहारक-तैजस-भाषा-ऽऽनापान-मनः-कर्मविषया वर्गणा भवन्ति / तत्र विविधा-नानाप्रकारा क्रिया-विक्रिया, तथा च तद्धेतुभूतायाः क्रियाया वैक्रियसमुद्धातकरण-दण्डनिसर्गादिविविधत्वं प्रज्ञप्त्यादिषु निर्दिष्टमेव, औदारिकाद्यपेक्षया वा विशिष्टा विलक्षणा वा क्रिया विक्रिया, तस्यां भवं वैक्रियं शरीरम् / तथाऽपूर्वार्थग्रहणादिनिमित्तमुत्कृष्टतो हस्तप्रमाणं चतुर्दशपूर्वविदा आहियते-गृह्यते यत् तद् आहारकम् , कृत् “बहुलम्" (सिद्ध०५-१-२) इति कर्मणि णकः यथा पादहारक इत्यादौ; यद्वा आह्रियन्ते-गृह्यन्ते सूक्ष्मा जीवादयः पदार्थाः केवलिसमीपेऽनेनेति निपातनादाहारकम् / तथाऽऽहारपाककारणभूतास्तेजोनिसर्गहेतवश्चोष्णाः पुद्गलास्तेज इत्युच्यन्ते, तेन तेजसा निर्वृत्तं तैजसं शरीरं सूक्ष्मादिलिङ्गगम्यम् / तथा भाषणं भाषा / तथा आनापानः-उच्छ्वासनिःश्वासः / तथा मन्यते-चिन्त्यते वस्त्वनेनेति मनः / तथा कर्मणा-' नामकर्मोत्तरप्रकृत्या निर्वृत्तं कार्मणम् , ज्ञानावरणीयाद्यष्टविधकर्मस्वप्रायोग्यपुद्गलानां गृहीतानां तत्तद्रूपेण परिणामजनकमित्यर्थः / ततो वैक्रियादिनिष्पत्तियोग्याः पुद्गलवर्गणा अपि वैक्रियादिशब्दैः प्रोच्यन्ते, यावद् ज्ञानावरणाद्यष्टविधकर्मपरिणामहेतुकं दलिकमपि कार्मणवर्गणेति / सतश्च वैक्रियं चाहारकं च तैजसं च भाषा चानापानश्च मनश्च कार्मणं चेति समाहारद्वन्द्वस्तस्मिन् वैक्रिया-ऽऽहारक-तैजस-भाषा-ऽऽनापान-मनः-कार्मणे / एता वैक्रियाद्या वर्गणा अग्रहणवर्गणान्तरिता भवन्तीत्यक्षरार्थः / भावार्थस्त्वयम्-तत्र याः पूर्वमौदारिकं प्रति प्रभूतपरमाणुनिष्पन्नत्वात् सूक्ष्मपरिणामत्वावाग्रहणप्रायोग्या वर्गणा उक्तास्ता एव वैक्रियं प्रति स्वल्पपरमाणुनिष्पन्नत्वात् स्थूलपरिणामत्वाचाग्रहणप्रायोग्या वर्गणा वेदितव्याः / ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया च एकपरमाण्वधिकस्कन्धरूपा वर्गणा वैक्रियशरीरप्रायोग्या जघन्या वर्गणा, ततो द्विपरमाण्वधिकस्कन्धस्वरूपा द्वितीया वैक्रियशरीरस्य ग्रहणप्रायोग्या वर्गणा, एवमेकैकपरमावधिकस्कन्धरूपा वैक्रियशरीरप्रायोग्या वर्गणास्तावद् वाच्या यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा भवति, जघन्यायाश्चोत्कृष्टा अनन्तगुणेति, एवं सर्वत्र / वैक्रियशरीरोत्कृष्टवर्गणापेक्षया च एकपरमाण्वधिकस्कन्धरूपा जघन्या अग्रहणप्रायोग्या वर्गणा, ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया अग्रहणप्रायोग्या, एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावद् वाच्या यावदुत्कृष्टा अग्रहणप्रायोग्या वर्गणा / एताश्च प्रभूतद्रव्यनिष्पन्नत्वात् सूक्ष्मपरिणामोपेतत्वाच्च वैक्रियशरीरस्याग्रहणयोग्याः, आहारकस्याप्यरुपपरमाणुनिष्पन्नत्वाद् बादरपरिणामोपेतत्वाचाग्रहणयोग्याः, एक्मुत्तरत्रापि भावना कार्या / अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया च एकपरमाण्वधिकस्कन्धरूपा वर्गणा आहारकशरीरप्रायोग्या जघन्या वर्गणा, जघन्याचा उत्कृष्टान्ताः एता अपि यथोत्तरमेकोतरपरमाणुवृद्धिमत्स्कन्धारब्धा अनन्ता भवन्ति / ततस्तदुपरि रूपाधिकस्कम्भैरा