________________ 5 15 [79-34] श्रीरत्नशेखरसूरिविरचितः श्राद्धविधि'प्रकरणान्तर्गतसन्दर्भः एवं श्राद्धस्य स्वरूपमुक्त्वा प्रागुक्ते दिनरात्र्यादिकृत्यषट्रे प्रथम दिनकृत्यविधिमाह नवकारेण विबुद्धो, सरेह सो सकुलधम्मनियमाई। पडिकमिअ सुई पूइअ, गिहे जिणं कुणइ संवरणं // 5 // व्याख्या-'नमो अरिहंताणं' इत्यादिना विबुद्धः स श्राद्धः स्वकुलधर्मनियमादीन् स्मरेत् / अयमर्थः श्रावकेण तावत् स्वल्पनिद्रेण भाव्यम् / पाश्चात्यरात्रौ च यामादिसमये सकाले उत्थातव्यं तथा सति यथा विलोक्यमानैहलौकिकपारलौकिककार्यसिद्धयादयोऽनेकगुणाः, अन्यथा तत् सीदनादयो दोषाः। लोकेऽप्युक्तम् 10 "कम्मीणां धणसंपडइ, धम्मीणां परलोभ। .. जिहिं सुत्ता रवि उग्गमह, तिहिं नरआओ न ओय // 1 // निद्रापारवश्यादिना यदि तथोत्थातुं न शक्नोति तदा पञ्चदशमुहूर्ता रजनी तस्यां जघन्यतोऽपि चतुर्दशे ब्राह्म मुहूर्ते उत्तिष्ठेत् , द्रव्याधुपयोगं करोतिद्रव्यतः कोऽहं श्राद्धोऽन्यो वा ? क्षेत्रतः किं स्वगृहेऽन्यत्र वा ? उपरितलेऽधस्तले वा ? . . कालतो-पत्रिर्दिनं वा? भावतः कायिश्यादिना पीडितोऽहं न वा ? एवमुपयोगे दत्ते निद्रानुपरमे नासानिःश्वासं निरुणद्धि / ततोऽपनिद्रः सन् द्वारं दृष्ट्वा कायिक्यादिचिन्तां करोति / उक्तं च साधुमाश्रित्यौघनिर्युक्तौ "दव्वाइ उवओगं ऊसासनिरंभणा लोअंति। ... रात्रौ च यदि किञ्चित् कार्याधन्यस्मै शापयति, तदा मन्दस्वरादिनैव, उच्चैः स्वरं तु शब्दकासितलुकाएंकाराद्यपि न कुर्यात् / यत्रौ तत्करणे जागरितैर्ग्रहगोधादिहिंस्रजीवैक्षिकोपद्रवाधारम्भः, प्रातिश्मिकैर्वा स्वस्वारम्भः प्रवर्येत / तथा च पानीयाहारिकारन्धनकारिकावाणिज्यकारकशोककारकपथिककर्षकारामिकारपष्टिकघरद्वादियन्त्रप्रवाहकशिलाकाकयाक्रिकरजककम्भकारलोहकारसत्रधार- धूतकारशस्त्रकारमधकारमात्स्यिकसौनिकवागुरिफलुब्धकघातकपारदारिकतस्करावस्कन्ददायकादीनामपि परम्परया कुव्यापारप्रवृत्तिरिति निरर्थकमनके दोषाः। तदुक्तं श्रीभगवत्यङ्गे___जागरिआ धम्मीणं, अहम्मीणं तु सुत्सया सेया। . .. वच्छाहिव भइणीए, अहिंसु जिणो जयन्तीए // 1 // निद्राच्छेदे च तज्ज्ञेन भूजलाग्निवायुव्योमसु किं तत्त्वमित्याद्यन्वेष्यं यतः अम्भोभूतत्त्वयोर्निद्रा, विच्छेदः शुभहेतवे। व्योमवाय्वग्नितत्त्वेषु, स पुनर्तुःखदायकः // 1 // 30