________________ 14 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीऋषभदेवततस्त्रिंशल्लक्षकोटिसागराणां गतेऽन्तरे। तृतीयोऽर्हत्सम्भवोऽभूत् दिग्लक्षकोटिसागरैः / 214 / व्यतीतैरन्तरे तुर्योऽभिनन्दनजिनोऽजनि / नवलक्षकोटिवाद्धिप्राप्ते सुमतिनिवृतिः // 215 // नवत्यान्वितकोटीनां सहस्रे सागरान्तरे / गते पद्मप्रभस्वाभी चामीकररुचितनुः // 216 // नवकोटिसहस्राधिगमने श्रीसुपार्श्वकः / नवकोटिशताम्भोधिप्रान्ते चन्द्रप्रभप्रभुः // 217 // ततो नवत्यधिकोटिगमने सुविधिर्जिनः / ततोऽपि नवकोट्यब्धिप्रान्तरे शीतलो विभुः // 218 // षट्पष्टिवर्षलक्षाश्च वर्षाणां ये सहस्रकाः / षड्विंशतिमितास्तावदूनाब्धिशतकोटिकाः // 219 // अस्यां गतायामेकस्यां श्रीश्रेयांसोऽभवज्जिनः / चतुःपञ्चाशदब्धीनामन्तरे द्वादशः प्रभुः // 220 / ततस्त्रिंशत्सागरान्ते विमलोऽभूत् त्रयोदशः / नवाब्धिभिरनन्तोऽर्हन् चतुरन्ध्यन्तरे ततः // 221 // श्रीधर्मोऽस्मात् पल्यतुर्यभाज्यभागत्रिकोनितैः / गतैत्रिभिः सागरैश्च श्रीशान्तिर्भगवानभूत् // 222 // पल्योपमार्द्धान्तरेऽभूत् कुन्थुः काकुत्स्थनामवान् / ततः पल्यचतुर्थाशे वर्षकोटयेकयोनिते // 223 // अष्टादशोऽरनामाऽभूत् वर्षकोटिसहस्रतः / श्रीमल्लिवर्षलक्षाणां चतुःपञ्चाशदन्तरे // 224 // मुनिसुव्रतोऽर्हन्नेतस्मात् षड्वर्षलक्षनिर्गते / नमिनामा पञ्चवर्षलक्षान्तरे गते ततः // 225 / / द्वाविंशोऽर्हन्नेमिनामा ततस्त्र्यशीतिरन्तरे / गताः सहस्रवर्षाणां शतानां सार्द्धसप्तकम् // 226 / / एतावदन्तरे पूर्णे श्रीपार्श्वः शाश्वतोंऽशुमान् / सार्द्धद्विशत्यतोऽब्दानामन्तरे वीरतीर्थकृत् / 227 / द्वाचत्वारिंशदब्दानां सहस्ररूनिताऽभवत् / कोटाकोटिः सागराणामाद्यन्त्यजिननिर्वृतेः / 228 / नान्तरेष्वाद्यतीर्थेशाष्टकस्य धार्मिकी च्छिदिः / तथैवान्तिमतीर्थेशां धर्मों नान्तरसप्तके / 229 / पल्योपमस्य तुर्या शः प्रथम एव तत्परे / चतुर्भागीकृते पल्ये त्रयो भागास्तृतीयके // 230 // तुल्ये पल्यचतुर्थी शः पञ्चमेऽपि तृतीयवत् / षष्ठे पल्यचतुर्थांशः स एव सप्तमेऽन्तरे // 231 // इत्येवं चरितं निरस्तदुरितं किञ्चित् समस्येरितं भक्ताः श्रीवृषभप्रभोनृपसभोन्नेयं प्रभोल्लासकम् / सौभाग्यं वितनोतु नेतुरमलं तेजो यशो वै भृशमारोग्यं ___ चिरजीवनं बहुतरश्रेयः श्रियामाश्रयम् / / 232 / / // इति श्रीप्रथमजिनचरितं सम्पूर्णम् //