________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् [39 यतः- नाणं च दंसणं चेव चरित्तं च तवो तहा / एस मग्गो त्ति पण्णत्तो जिणेहिं वरदंसीहिं // 34 // दशप्रकाराऽपि दीक्षा क्षमाऽऽर्जवादिभेदतः / क्षमा क्रोधपरित्यागो मायानाशस्तदार्जवम् / / 35 // मार्दवं मानराहित्यं मुक्तिर्लोभपरिक्षयः / तपः प्राक कर्मनाशाय दयावृत्तिश्च संयमः // 36 // सतां हितं यद् वचनं सत्यं चाऽलीकवर्जनात् / ___ नालीकवृत्तौ पद्मस्य दृष्टैवि श्रीनिवासता // 37 // शौचं संयमसंशुद्धिर्ज्ञानादेरविराधनात् / आशातनायां का शर्माऽऽशा तनाविति स गिरः / 38 / विरुद्धदेशे काले वाऽध्ययनेऽशुचिवमणि / न स्वाध्यायो विधातव्य इति स्थानाङ्गवाक्पटुः // 39 // नातिशौचं द्विजस्येव नाशौचं म्लेच्छलोकवत् / तुलान्यायेन माध्यस्थ्यात् शौचं द्रव्याच्च भावतः // 40 // आकिञ्चन्यममूर्छासौ ब्रह्म स्त्रीसङ्गवर्जनम् / युक्तरावर्जनमतः संवरो भगवन् मतः // 41 // लात्वा पुरुषसिंहोऽथ दीक्षां सूरेः प्रपालयन् / तीर्थकृनामक कर्म बबन्ध कतिचित् पदैः // 42 // विंशतिस्थानतपसा तथाऽन्यैश्च तपोभरैः / प्रान्तेऽनशनभाग् देवो वैजयन्तविमानगः // 43 // जम्बूद्वीपेऽत्र भरते विनीतायां नृपोऽभवत् / मेघनामा मङ्गलाऽस्य प्रियाऽभ्युदितमङ्गला / 44 जीवः पुरुषसिंहस्य च्युत्वाऽनुत्तरतः पुनः / कुक्षाववातरत् तस्यां मन्दार इव तदिवि // 45 // नमःशुक्लद्वितीयस्यां मघाचन्द्रेऽवतीर्णवान् / - ततः सा शुशुभे रत्नधरेव मणिधारणात् // 46 // तदा विवदमाने द्वे स्त्रियौ सुव्यवहारिणः / स्तनंधयधनार्थेन मेघराजमुपेयतुः // 47 // सझोचे पट्टराझी मे करिष्यत्यनयोनयम् / ... मातैव माता' बालस्याऽनालस्याद् यातु तत्पुरः // 48 // सुतोऽयमौरसो मेऽस्ति प्रीतिरीतिविवद्धितः / पराऽप्याह निरुत्साहा साहाय्यात् पुण्यसत्यजात् // 49 // -प्रमाता प्रमाणित ४२नार.